________________
१.१६
सौभाग्यम्
सालः स्मयेन कपिशीर्षककोटिमुच्चैगृहमिव स्वयमप्यधत्त ॥६९॥
[ सर्ग १० श्लो० ६९-७०
सालो यत्प्राकार- स्मयेन गर्वावेशवशंवदतया । उत्प्रेक्ष्यते - स्वयमप्यात्मनोऽपि मरुदुगृहं स्वर्गं धर्तुमुद्वोढुं धारयितुमुच्चैरूर्ध्वमुपरिष्टात् कपिशीर्षकाणामट्टालकानां ' कासीसां' इति प्रसिद्धानां कोटिमधत्त घृतवानिव । सालः किं कुर्वन् । भुजंगविभुना शेषनागनायकेन सममभ्यसूयामर्ष्या स्पर्धा बिभ्रद्दधानः । किंभूतेन भुजंगविभुना । धात्र्या धरिया धृत धारणविषये फणानां स्वशिरसां सहस्रं दशशतीं बिभर्तीति । सालः किंभूतः अम्बरमाकाशं चुम्बतीति शिखरेण स्पृशतीत्येवंशीलो मौलिर्मूर्धा यस्य । अभ्रंलिह इत्यर्थः ॥
શ્લાકા
ધરતીને ધારણ કરવા માટે જેણે હજારાએ મનાવી છે તેવા શેષનાગની સાથે સ્પર્ધા કરતા નગરીના આ ગગનચૂખી કિલ્લાએ અહંકારથી સ્વગ લેાકને ધારણ કરવા માટે જાણે ઉંચાં ક્રોડા કાંગરાઓ ધારણ કર્યો ન હોય ! ।।૬ા
यद्वप्रवज्ररुचिसंचितशक्रचाप
'चक्राचुम्बिक शीर्ष कराजिराभात् ।
युद्धं विधातुमहितेन विधुंतुदेन
मित्रान्तिकं किमु समीयुरमी सगोत्राः ॥ ७० ॥
यस्या नगर्याः वप्रः प्राकारः तस्य तत्संबन्धिनां वा वज्राणां गर्भसंदर्भीकृतकुलिशरनानां रुचिभिः कान्तिभिः संचितानि पुष्टानि कृतानि प्रकटीकृतानि वा शक्रचापचक्राणि इन्द्रधनुर्मण्डलानि । अथ च वज्रशककोदण्डचक्राख्यानि आयुधानि यस्यां तादृशी । तथा अभ्रमाकाशं चुम्बत्यालिङ्गतीत्येवंशीला अभ्रंकषा कपिशीर्षकाणां राजिः पङ्क्तिः आभाभौ । उत्प्रेक्ष्यते - अहितेन शत्रुणा विधुंतुदेन राहुणा सार्धं युद्धं संग्रामं विधातुं कर्तुं मित्रस्य सुहृदः सूर्यस्य चान्तिकं समीपममी सगोत्राः स्वजनाः किमु समेता उपगता इव । सगोत्रत्वं तु वृत्ताकारत्वेन प्राकाशकत्वेन च नभः पान्थत्वेन प्रभाकरत्वेन च । तथा सगोत्रा हि सायुधाः संग्रामसमये सगोत्रसमीपे प्रायः समायान्ति इति रीतिरियम् । तत्रापि कश्चित्सगोत्रोऽप्यनिष्टो भावदेव च सत्पयं परं मित्रः ततः सर्वमप्युचितमेवेति ॥ इति प्राकारः ॥