SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सर्ग १० श्लो० ६५-६६] हीरसौभाग्यम् णमयं मथ्य यस्याम् । पक्षे स्फटिकरत्नैरवनद्धं बद्ध मध्यं यस्याः स्फटिकाद्रित्वात् । पुनः किंभूता । सह शेवधीनां निधानानां पतिभिः स्वामिभिः अगणिताप्रमाणद्रविणत्वात्प्रतिस्थाननिक्षिप्तानेकनिधिनायकैरीश्वरैर्वतते या । पक्षे सधनदा । 'कैलासौकापक्षधननिधिकिंपु. रुषेश्वरः' इति हैम्याम् । पुनः किंभूता । प्रचलन्तः क्रीडाकृते स्वतन्त्र भितस्ततः परिभ्राम्यन्तः कुमारा राजामात्यसामन्तमहेभ्यादीनां बालका यत्र । पक्षे प्रचलन पित्रोमिलनार्थ गमागमं कुर्वन् कुमारः स्वामिकार्तिको यत्र । स्कन्दस्यान्यत्रापि स्थितिसंभवाद्गमागमौ युक्तौ । तथा-'सुगन्धिगन्धमादनाधिवासिनः स्कन्ददेवस्य दर्शनार्थमितो गतवानस्मि' इति चम्पूकथायाम् । अथवा गौरीनन्दनत्वात्तत्रापि मातुः पार्श्वऽवस्थितत्वाच्चेति द्वयो रपि कर्मधारयः । पुनः किंभूता । कर्णातिथीभवन्तः श्रवणप्राघुर्णा जायमाना इभानां सदगन्धबन्धुरसिन्धुराणामाननेभ्यो वक्त्रेभ्योऽर्थानिर्गता धीराः पानीयपूर्णाप्रमाणश्रावणसं. बन्धिजलधरध्वनितानुकारिणी रावा गम्भीरगर्जारवा यस्याम् । पक्षे श्रूयमाणो गणनायकधीरध्वनिर्यस्याम् । विनायकस्यापि गौरीतनूजत्वात् ॥ પ્લેકાર્થ શ્રીકરી નગરી કૈલાસભૂમિની જેમ શેભતી હતી. તેમાં કાંચનવર્ણય મહિલાઓ સહિત શ્રેણીઓને સમૂહ હત; જેવી રીતે કૈલાસમાં પાર્વતી સહિત ઈશ્વર અને પ્રેમથી આદિ ગણે છે. નગરીને મધ્યભાગ સ્ફટિકની જેમ ઉજવલ હતું, જેવી રીતે કૈલાસ સ્ફટિક રવાળે છે. નગરીમાં ધનાઢય માણસો વસતા હતા, જેવી રીતે કૈલાસ ઉપર કુબેર વસે છે ! નગરીમાં આમતેમ શ્રેષ્ઠીપુત્રો અને રાજકુમાર કીડ કરી રહ્યા હતા, જેવી રીતે કૈલાસમાં કાર્તિકસ્વામી આમતેમ ક્રિીડાને કરે છે. નગરીમાં મદેન્મત્ત હાથીઓનાં ગરવના શબ્દ સંભળાઈ રહ્યાં હતા, જેવી રીતે કૈલાસ જલસહિત મેઘના ગજાવવાળો છે ! આ રીતે કૈલાસભૂમિની જેમ શ્રીકરી નગરી શોભી રહી હતી. પાપા भूमिभृतां प्रतिभटं सुमनःसु मुख्य जिष्णूपधन्वपविपाणिसहस्रनेत्रम् । प्रेक्ष्य प्रभु हरिमिव स्वमुपेतमा प्रीतेरनूपगतवत्यमरावतीयम् ॥ ६६ ॥ यं नृपम् । यन्मूर्तिमित्यर्थः । उर्ला महीमण्डले उपेतमागतं स्वमात्मीयं प्रभु स्वामिन हरिमिन्द्र प्रेक्ष्य विलोक्य । विज्ञायेत्यर्थः । प्रीतेः स्वस्वामिनि स्नेहातिरेकात् अनु पृष्ठे उपगतवती समायाता । उत्प्रेक्ष्यते-इय श्रीकरीरुपा अमरावती इन्द्रनगरीव । किंभूतं य हरिं च । भूमीभृतां विपक्षक्षोणीक्षितां पर्वतानां च प्रतिभटं विद्वेषिणं निहन्तुकम् । ही. सौ. १५
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy