SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् सर्ग १० श्लो०६४-६५ प्राक्काश्यपीपतिरकब्बरपातिसाहि स्तस्याः पुरः प्रतिभटान्प्रचलन्विजेतुम् । आशा दशापि कुरुते स्म फते स यस्मा तस्मात्फतेपुरमिति प्रददे तदाहाम् ॥ ६४ ॥ ... तस्मात्कारणात काश्यपीपतिरपनिनायकः तस्याः श्रीकर्या आह्वां नाम फतेपुरमिति प्रददे दत्तवान् । करोति स्मेत्यर्थः । यत्तदोनित्याभिस बन्धाद्यद्यस्मात्कारणात् सोऽकब्बस्पातिसाहिः प्रारु पूर्व वासनसमये तस्याः श्रीकाँः पुरो नगर्याः प्रतिभटान प्रत्यर्थिपार्थिवान् विजेतु प्रचलन प्रतिष्ठमानः दशापि प्राची-आग्नेयी-दक्षिणा-नैर्ऋतीप्रतीची-वायवी-उत्तरा-ऐशानी-नागी-ब्राह्मीलक्षणा आशा दिशः फते स्वायत्ताः । यवना हि विजयस्याभिधां 'फते' इति कथयन्ति इति । 'दशदिगन्तजिता रघुणा यथा' इति रघुवंशे । दशदिशां जयः कुरुते स्म कृतवान् । 'जैनमते तु महानद्यादिषु इतस्ततः पयःप्रवाहागमननिम्नीभवभूभागनिवासिशबरादिग्रामाः शैलसंधिगहरमध्यगतभिल्लपल्ल्यो वा अधोदिग्वर्तिनः तथा पर्वतोपरिकोट्टादय ऊर्ध्व दिग्भाज इति तत्त्वम् इति दशदिग्जयः जिगायेत्यर्थः ॥ કાર્થ • અકબર બાદશાહે શત્રુરાજાઓને જીતવા માટે પ્રથમ શ્રીકારી નગરીથી પ્રયાણ કર્યું, દશે દિશાઓને સ્વાધિન કરી હતી અર્થાત્ દિવિજય કર્યો હતે. “ફતે ” કર્યો હતો. (યાને વિજયને “ફતે કહે છે. તેથી શીકરીનું નામ “ફતેપુર' રાખવામાં આવ્યું. ૬૪ गौरीमहेश्वरगणा स्फटिकावनद्ध मध्या सशेवधिपतिः प्रचलत्कुमारा । कर्णातिथीभवदिभाननधीररावा कैलासभूमिरिव या नगरी रराज ॥६५॥ '. या श्रीकरीनगरी कैलासभूमिः स्फटिकाचलक्षोणीव रराज राजते स्म । किंभृता । गौरीभिः काननचारुवर्णवर्णनीयवर्णिनीभिः कलितानां महेश्वराणां महेभ्यानामगणित द्रविणवतां व्यवहारिणां गणां व्रजा यत्र । पक्षे पार्वतीसंयुतशंभुः तथा गणाः पार्षदाः प्रमथादयो यस्याम । पुनः किंभूता । स्फटिकादुज्ज्वलमवनद्धं सुधाकल्पितं गृहविपणिग.
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy