________________
हीरसौभाग्यम्
[सर्ग १० श्लो ० ६२
मिया विविधलक्ष्म्या कलिताम् आगरा इत्यभिधानं यस्यास्तादृशी पुरीं मगरमुपेत्यागत्य कियन्ति कतिचिद्वर्षाणि यावस्थितिः वसतिवितेने विहिता। स्थित इत्यर्थः । केनेव । भूकश्यपेनेव । यथा वसुदेवेन शौर्यपुरान्मथुरामागत्य कियन्ति हायनानि वसतिर्वितन्यते स्म । 'वसुदेवो भूकश्यपो दन्दुरानकदुन्दुभिः' इति हैम्याम् । किंभूतां पुरम् । हेमपद्मानां आम्बूनदारविन्दानां निष्पातिभिनितरां पतनशीलैरथ वा काञ्चननीरजेभ्यो गलदिभः । 'पशुपतिजटाजूट इव विकसितकनकमलकुवलयोच्छलितरजःपुनपिञ्जरितराजहंसावतंसया' इति चम्पूकथायां हेमपद्मानां सदभाव इति । पौष्पैः परागैः कपिशा पिङ्गीकृतपया यार्कसुता भानुनन्दना सैव कलापः कलधौतमेखला यस्यां सा ताम् ॥
કલેકાથ
જેમ વસુદેવે શૌર્ય પુરીથી આવીને મથુરામાં સ્થિરતા કરી હતી તેમ પૃથ્વીના ચંદ્ર અકબર બાદશાહે દિલ્હી નગરથી સુવર્ણ કમની પરાગથી જેના પાણી પીળા બની ગયાં છે તેવી યમુનારૂપ મેખલાવાળી આગ્રા નગરીમાં આવીને કેટલાંક વર્ષ સ્થિરતા કરી.દરા
.
[ तस्थौ समाः स कियतीः पुरमागराख्यां .. भूमान्विभूष्य मथुरामिव वृष्णिम नुः । भर्तुवंशेव सरसा सरसीरुहास्या
श्यामाङ्कमर्कतनुजा भजते स्म यस्याः॥
स भूमण्डले मुद्गलेन्द्रतया विख्याती भूमानकब्बरः आगरा इत्याख्या नाम यस्यास्तानी पुरै नगरी विभूष्यालंकृत्य कियतीः कियत्संख्याकाः समा वर्षाणि । 'हायनोऽब्द समाः शरत् ' इति हैम्याम् । यावत्तस्थौ स्थितिमकार्षीत् । क इव । वृष्णिसूनुरिष । यथा वृष्णेरन्धकवृष्णेः सूनुर्नन्दनो वसुदेवोदसारः कंसोपरोधेन कतिचित्संख्याकान संवत्सरान स्थितवान् । यस्य आगराख्यायाः पुरो मथुरापुर्याश्च अर्कतनुजा कालिन्दी अङ्क समीपं भजते स्म सिषेवे । 'अङ्को भूषारूपकलक्ष्मसु । चित्राजौ नाटकाद्यशे स्थाने कोडेऽन्तिकागसोः ॥' इत्यनेकार्थः । केव वशेव । यथा पत्नी भर्तुरन्तिकमुत्सङ्ग भजते । किंभूता । सह रसैः पानीयैः श्रृङ्गारादिभिर्वा वर्तते या सा सरसा । पुनः किंभूता । सरसीरहं पन तदेव तद्वद्वा आस्यं वदनं यस्याः । पुनः किंभूता । श्यामा कृष्णवर्णा । 'जम्मन्तरे न विहडा उत्तममहिलाण जं कियंपि कम्मं । कालिन्दी कन्हविरहे अजवि कालं जल पई।' इति वृत्तरत्नाकरवृत्तौ । पक्षे षोडशवार्षिकी ॥ पाठान्तरम् ॥]