________________
१०८
हीरसौभाग्यम्
[सर्ग १० श्लो० ५९-६०
यश्चासौ अम्बुनिधिनेमौ वसुधावलये विधुश्च तस्याकब्बरभूपते राज्ञः आज्ञा शासनमुदीच्यैः उत्तरस्यां भर्धरणीरमणैः पृथिवीपतिभिर्मूनि स्वमस्तके शीर्षव 'सेस' इति लोकप्रसिद्धा । अधारि ध्रियते स्म । तथा पाश्चात्यभूमिपतयः पश्चिमदिक्संबन्धिनो भीतेरकब्बरसाहिसाध्वसातिरेकाद्यतयस्तापसा बभूवुः संजाताः । 'वैखानसो वानप्रस्थो भिक्षुः सांन्यासिको यतिः' इति हैम्याम् । किंभूताः । उज्झितस्त्यक्तः सङ्गस्य गृहगृहिणीधनैश्वर्यादिसंगमस्यानुषङ्गस्य रङ्गश्चित्तोत्साहो यैः । उत्प्रेक्ष्यते-विरागत इव । यथा वैराग्या त्तापसीभवन्ति । तेऽपि च विरागिणस्त्यक्तसङ्गरङ्गाः स्युः॥ इत्यकब्बरस्य चतुर्दिगाकमणम् ॥
લેકાર્થ
વસુધાના વિધુ અકબર રાજાની આજ્ઞાને ઉત્તરદિશાનાં રાજાઓએ શેષનાગની જેમ શિ ધાર્યા કરી, અને બાદશાહના ભયથી પશ્ચિમ દિશાનાં રાજાએ ધનધાન્ય, કુટુંબ પરિવારને ત્યાગ કરીને જાણે તાપસ બની ગયાં ! પા
सर्वे जनाः मृजति राजनि यत्र राज्यं
प्रहत्तिपल्लवितचित्तपथा वभूवुः। दुःस्थैरिवापि न परं प्रतिपक्षलक्ष
क्षोणीमहेन्द्रमहिलानिवहैः सुखांशः॥६०॥
यत्र यस्मिन्नकब्बरे राजनि चतुरम्बुधिमेखलाखण्डले राज्यं सकलविपुलामण्डलेश्वर्य सृजति कुर्वति सति सर्व समस्ता अपि जनाः प्रजालोकाः प्रह्लत्या प्रमोदेन । 'हाद इति योगविगाभात् ह्रस्वः प्रह्लत्तिः' इति प्रक्रियाकौमुद्याम् । कृत्वा पल्लविताः बहलीभूताश्चित्तपथा मनोवृत्तयो येषां तादृशा बभूवुः संजाताः । परमयं विशेषः । अथ वा परं केवलं प्रतिपक्षा अकबरसाहेश्चेतोवचनादिनिर्विपक्षीभूता मनसैव विरुद्धविधित्सवो वा न तु कायेन कथंचिदपि प्रभविष्णवः तादृग्विधा विरोधिनस्ते च लक्षा लक्षसंख्याका ये क्षोणीमहेन्द्राः पूर्वावस्थापेक्षया क्षितिऋभुक्षाणः महानृपास्तेषां महिला अवरोघवध्वस्तासां निवहैः समूहैः दुःस्थैर्दरिफ्रेनिर्धनैरिव सुखस्य सातस्य शर्मणो लेशोऽप्यंशोऽपि नावापि न प्राप्तः । महाराजा अपि यत्प्रतिपक्षतया परिभव प्राप्य सर्व राज्यं जनपदपरग्रामद्रवि णादि निर्गम्य द्रमकीभूय वनेचरा इव कान्तारान्तरचारिणो बभूवुः । अतस्तपस्विनीभिस्तद्वनिताभिः कुतः सुखांशोऽपि प्राप्यत इत्यर्थः ॥
કલેકાર્થ
અકબર બાદશાહના રાજયમાં સર્વે પ્રજાજને પ્રમોદથી પ્રકુલિત ચિત્તવાળા બન્યાં.