________________
'सर्ग १० श्लो० ४८-४९]
हीरसौभाग्यम्
निमीयते स्म । कृत्वा । उत्प्रेक्ष्यते एतस्याकब्बरसाहेमहः प्रतापमुल्लवितुमतिक्रमितुमिव । 'लघूङ् गतौः' अयं धातु,दिरात्मनेपदी । अतिदुःसहतया निजजैत्रतया च एतत्पुरस्त्वरितुं पलायितुं वा स्पृहयता काङ्क्षता । किंभूत महः । त्रिभुवने त्रैलोक्येऽपि भ्रमणी पर्यटनम् । 'विधेः कदाचिभ्रमणीविलासे' इति नैषधे । तत्र विलासः क्रीडा यस्य । पुनः किंभृतम् । जैत्राणां जयनशीलनां प्रतिपक्षलक्षतिरस्कृतिदीक्षितानामङ्ककाराणां प्रतिमल्लानां जिष्णूनामपि जित्वराणां निकरैः समुदायैरपि दुःप्रधृष्यं दुराकलनीयम् । सर्वथापि जेतुमशक्यमित्यर्थः । 'दूरं गौरगणैरहंकृतिभृतां जैत्राङ्ककारे चर-'इत्यपि नैषधे ॥
કલેકાર્થ સૂર્યે એકહજાર પત્ર ( કિરણ) ધારણ કર્યા ! શુરવીર શત્રુઓનાં સમુહ માટે - ઈર્ષ ત્રણે જગતમાં પર્યટન કરી રહેલા અકબર બાદશાહનાં અતિ દુસહ પ્રતાપનું -ઉલ્લંઘન કરવા માટે જાણે સૂર્યે હજાર કિરણે ધારણ કર્યા ન હોય ! ૪૮
आकालिकीकुलिशशैवलिनीशवह्नि
वैश्वानराम्बुरुहिणीरमणप्रदीपाः । अंशा अमी त्रिजगतीव परिस्फुरन्ति राशेरिवास्य महसां रिपुराजघस्य ॥ ४९॥
रिपून राज्ञो निखिलसपत्नावनिपतीन हन्तीति पञ्चतागोचरान चरीकर्तीति रिपुराजघः । 'पाणिघताउघौ शिल्पिनि विषये निपात्यौ, राजधश्च राज्ञो हन्ति' इति प्रक्रियाकोमुद्याम् । तथा 'रराज नीराजनया स राजघः' इति नैषधेऽपि । तस्य एतस्याकब्बरपातिसाहेमहसां भूयसः प्रतापानां राशेः समूहस्य । ‘स राशिरासीन्महसां महोज्ज्वलः' इति नैषधे । अर्थस्तु वृत्तौ । एवमेवेति । त्रिजगति त्रैलोक्ये अमी जनचक्षुःप्रत्यक्षलक्ष्याः अंशा भागा इव परिस्फुरन्ति स्फूर्ति बिभ्रति । तानेव दर्शयति-आकालिकी विद्युत्, कुलिशं शककराम्भोरुहभास्वद्दम्भोलिनामायुधम्, शैवलिनीशो नदीपतिः समुद्रस्तस्य वह्निर्हताशनः वडवानलः । 'और्वः सर्तकोऽध्यग्निर्वाडवो वडवामुखः' इति हैम्याम् । तथा वैश्वानरः स्वाभाविकापरदवानलादि ज्वलनः अम्बुरुहिणीरमणः पद्मिनीप्राणनाथः सहस्ररश्मि., प्रदीपाः स्नेहप्रियाः, इत्येते ॥
કલેકાર્થ
શત્રુરાજાઓને નાશ કરનાર અકબર બાદશાહના પ્રતાપના સમુદ્રમાં વિઘત