________________
९८.
सौभाग्यम्
आतङ्कितैः किमिदमित्यमरैर्वददिभर्लेभे किमीक्षणयुगेषु निमेषनैस्व्यम् ॥ ४४ ॥
क
[ सर्ग १० श्लो० ४४-४५
एतेनाकब्बरेणानन्ये असाधारणे अदृष्टाजातपूर्वे जन्ये संग्रामे व्याहन्यमानानां व्यापा धमानानां राजन्यवीराणां कोटीभ्यः । कवीनां कुत्रचित्केचित् कोटीप्रमुखाः शद्बाः प्रायो बाहुल्ये दृश्यन्ते । यथा पाण्डवचरित्रे घटोत्कचस्य 'घटूको ' इति प्रसिद्धस्य भीमहिडम्बाङ्गजातस्यैकरात्रिरणे - ' रथान् पिपेष पाषाणैर्जघान तरुभिर्गजान् । सवेगापातवातेन भटकोटीरपातयत् ॥' तथा तत्रैव गाङ्गेयस्य दशमदिवससंग्रामेऽप्युक्तम्'कोटिशो भटसंभारसंहारे विहितश्रमम् । धनुर्विश्रामयांचक्रे कृपयेव पितामहः ॥ इति । श्रेणीभ्यो भवमुत्पन्नम् । अकस्माद्भवमाकस्मिकं तुमुल व्याकुलकोलाहलशब्दं निशम्य श्रुत्वा आतङ्कितैः संजातभीतिभिः अत एव किमिदं किं जातं चेत्यमुना प्रकारेण वदभिः कथयभिरमरैर्दवैः। उत्प्रेक्ष्यते- ईक्षणयुगेषु नेत्रद्वन्द्वेषु निमेषाणां नेत्रोन्मीलननिमीलनानां नैव्यं दारिद्र्य किं लेभे प्राप्तमिव । भीतेरतिशायितया विकाशितलोचनैरेवाभूयतेत्यर्थः ॥ इति अकब्बरसाहिसमरवीररसवर्णनम् ||
ક્લાકા
ખદશાહના અસાધારણ કેાટિના યુદ્ધમાં હણાતા ક્રોડા રાજસુલટાથી ઉત્પન્ન થયેલા આકસ્મિક કાલાહલ સાંભળીને ભયવિદ્દલ બનેલા શું થયું ? શું થયું ?” આ પ્રકારે ખેલતા દેવાનાં એ નેત્રમાં જાણે તેથી જ નિમેષ-ઉન્મેષ રહિતપણુ આવ્યું ન હાય ! ( અર્થાત્ ભયના અતિરેકથી દેવા વિકસિત નેત્રવાળા બની ગયા) ૫૪૪ા
भूमेर्जयाय चतुरम्बुधिमेखलाया
आराध्य पूर्वविधिना किमु जैत्रमन्त्रम् ।
गुप्तं कचिभिजभुजप्रभवत्प्रताप
वह्नौ ततोऽयमरिकीर्तिनी जुहाव ॥ ४५ ॥
अयमकब्बरपातिसाहि: चत्वारश्चतुःसंख्याकाः पूर्वापरदक्षिणोत्तरलक्षणा अम्बुधयः समुद्रा एव मेखला काञ्ची यस्यास्तादृश्या भूमेः पृथिव्या जयाय स्वीकरणाय पूर्वविधिना जापयतः प्रमुख पूर्व सेवाप्रकारेण जैत्र' यावन्निजप्रतिपक्षपक्षाणां जयनशीलं पराभवनैकस्वभावं मन्त्र प्रभाववर्णात्मकां विद्यामाराध्य सम्यगुपासनां विधाय । ततः पूर्णपूर्वविधि सेवानन्तरं क्वचित्कुत्रचित्प्रदेशे गुप्त छन्नम् यथा कश्चिजनेो न पश्यति न वेत्ति तागेकान्तस्थाने ।