________________
हीरसौभाग्यम्
[सर्ग १० श्लो० ४१-४२
पाणौ रणाङ्गणगतस्य कृपाणयष्टिः
क्षोणीमणेस्तृणयतः पृतनां रिपूणाम् । भाति प्रचण्डभुजदण्डवसज्जयश्रीः
केशच्छटा प्रकटतामिव टीकमाना ॥४१॥
क्षोणीमणेभू मीरत्नस्याकब्बरपातिसाहेः पाणौ हस्ते कृपाणयष्टिः करवाललता भाति राजते । किंभूता । रणाङ्गणे युद्धमूर्ध्नि गतस्य प्राप्तस्य । अत एव किं कुर्वतः । रिपूणां प्रतिभटानां पृतनां सेनां पताकिनी तृणयतः तृणप्रायां मन्यमानस्य तृणीकुर्वतः । न किंचिकरतां प्रणयतः तृणवत्खण्डयतो वा । उत्प्रेक्ष्यते-ग्रकटतां प्रकाशभावं जनदृग्गोचरत्वं टीकमाना गच्छन्ती । प्रचण्डौ जानुयुगव्यायतौ द्विषज्जनासह्यपराक्रमौ भुजदण्डौ तयोर्वसन्त्या चिरं वास सृजन्त्याः । तिष्ठन्त्या इत्यर्थः । जयश्रियो जयलक्ष्म्या केशच्छटा कुन्तलहस्तो वेणी वेत्यर्थः ।।
લોકાથ
રણસંગ્રામમાં શત્રઓની સેનાને તૃણપ્રાયઃ ગણતા બાદશાહનાં હાથમાં રહેલી તલવાર, જાણે પ્રચંડ ભૂજાદંડમાં ચિરકાલથી વસતી જયલક્ષ્મીની વેણ ન હોય, તેવી शाले छे. ॥४१
खगाहतोद्धतमतङ्गजदन्तकुम्भ
प्रोद्भूतपावककणोत्करमुक्तिकाभिः । क्षुण्णे तुरङ्गमखुरै रणभूतले य
ओजोयशोऽवनिरुहोर्बपतीव बीजम् ॥४२॥ यः साहिस्तुरङ्गमाणां शौर्यादयोत्सुकतया खुरैः शफैनखशिखाभिः क्षुण्णे क्षोदिते अ. तिवाहिते 'खेडऊ' इति जनप्रसिद्ध रणभूतले रणाङ्गणे युद्धधरामण्डले । उत्प्रेक्ष्यतेओजः प्रतापः यशः कीर्तिस्त एवावनिरुहौ पादुपौ तयोबींज योनिनिबन्धनं तरुप्ररोहप्रादुर्भावकर' पर्वते वपतीव निःक्षिपतीव । काभिः । खड्गैनिशिततरवारिमिराहता गाढदत्तप्रहाराः सर्वाङ्गेषु आसामस्त्येन निस्त्रिंशतया निस्त्रिंशनिहता वा तथा उद्धताः समरशूरा अनवरतविनिःसरत्सप्तस्थानदानपयःप्रवाहोत्कटा वा ये मतङ्गजाः कुञ्जरास्तेषां दन्तेभ्यो दन्तकोशेभ्यः ‘दंतूसल' इति प्रसिद्धेभ्यः तथा कुम्भेभ्यः शिरःपिण्डस्थलेभ्यः प्रोद्भूताः प्रकटा जाता ये पावककणोत्करा वहिस्फुलिङ्गगणास्तथा मुक्तिका मुक्ताफलानि खड्गप्रहते