________________
९२
हीरसौभाग्यम्
[सर्ग १० श्लो० ३५-३६
यस्याहवोऽजनि घनाघनवत्कृपाण
विद्युत्पतत्समददन्तिमदाम्बुधारः । भल्लीनिकृत्तरिपुशोणितसिन्धुवेणी
रुड्डीनपांसुपिहिताखिलदिग्विभागः ॥ ३५॥ शून्यं सृजन्भुवनमप्यरिकीर्तिहंसः
श्रेण्या कुले द्विषति दुर्दिनमादधानः । विद्रावयन्परवधूवदनाम्बुजानि
शूरद्रुमान्पुलककोरकितान्प्रकुर्वन् ॥३६॥ (युग्मम्)
यस्य जलालदीनसाहेराहवः संग्रामो धनाधनवन्मेघ इवाजनि संजज्ञे समभूत् । किंभूतः । कृपाणाः शाणशिखरोल्लिखितनिशितझगझगितिकान्तिकरवाला एव विद्युतस्तडिवितानानि यत्र । पुनः किंभूतः। पतन्त्यः कपोलपालीभ्योऽविरलं निःसरन्त्यः समदानां मदोधुराणां दन्तिनां दन्तावलेन्द्राणां मदाम्बूनां दानजलानां धारा वृष्टया यत्र । पुनः किंभूतः । भल्लीभिः शस्त्रविशेषैः । 'तिमिरकरिकुम्भभेदनभल्लीष्विव दीपकलिकासु' इति चम्पूकथायाम् । निकृत्ताश्छेदिता ये रिपवो विपक्षास्तेषां शोणितानि रुधिराणि एव सिन्धूनां नदीनां वेणयः प्रवाहा यत्र । 'उच्छङ्खलं चलन्तीनामसृग्जलधियोषिताम्' इति पाण्डवचरित्रे । वेणीशब्दो दी| ह्रस्वोऽप्यस्ति । पुनः किंभूतः । उड्डीनरूधंगतैर्दशदिग्विस्तृतैः पांसुभिः गजवाजिरथपत्तिप्रकराणामितस्ततस्त्वरितसंचरणैरुत्खातैम्रमदभ्राभ्रकविश्रमायमाणे रजोवजैः पिहिता आच्छादिता अदृग्गोचरीकृता अखिलानां समस्तानां दिशां हरितां विभागाः प्रदेशा यत्र । अपि पुनः किं कुर्वन् । अरीणां शत्रूणां कीर्तय एव हंसास्तेषां श्रेण्या धोरण्या कृत्वा भुवन विश्व पानीयम् । 'भुवनं वनं घनरसो यादोनिवासोऽमृतम्' इति हैम्याम् । शून्यं रिक्त च सृजन कुर्वन् । प्रायः प्रावृषि राजहंसा मानससरसि यान्ति । प्रावृवृष्ट्या बहलजम्बालागमेन जलकालुष्यान्नान्यजलाशयेषु तिष्ठन्तीति । पुनः किं कुर्वाण: । द्विषति वैरिणि कुले वंशे विपक्षान्ववाये दौस्थ्याहौर्भाग्यवनवासपुत्रकलत्रमित्त्रप्रमुखस्वजनजनवियोगादिरूपं दुर्दिनं कुदिवस दुष्टं दिन मेघान्धकार वादधानः निर्मिमाणः । 'वधूवक्त्राम्भोजं भवतु न स तेषां कुदिवसः' इति नैषधे । पुनः किंभूतः । परेषां पथिकपृथ्वीनायकानां वधूनां पुरंध्रीणां वदनान्येवाम्बुजानि तामरसानि विद्रावयन म्लानिं प्रापयन् गतप्रायाणि सृजन् । 'विद्राणपङ्कजरसे' इति चम्पूकथायां वर्षावर्णने । पुनः किंभूतः । शूराः सुभटा एव द्रुमा.वृक्षास्तान्पुलकेन रोमाञ्चेन रोमहर्षणेन संनिभाश्च कोरकाः कुङ्मलाः संजाता एष्विति कोर कितास्तथाविधान्प्रकर्षण