________________
हीरसौभाग्यम्
सर्ग १० श्लो ० ३१-३३
નિપુણ એવા અશ્વારુઢ અકબર બાદશાહને જોઈને ભયથી વિહ્વલ બનેલા શત્રુરાજાઓનાં બાહદંડ રૂપ ના નિષ્ટ બની ગયા અર્થાત્ હતાશ થઈ ગયાં. એમાં શું આશ્ચર્ય ! સુવર્ણના શરીરવાળા સર્પના શત્રુ અને વિષ્ણુનાં વાહનરૂપે રહેલા ગરૂડને જોઈને શું સર્પ જડ નથી બની જતાં ? ૩૧
यस्याशुगान्प्रणयतः प्रतिभूपतीनां
प्राणान्सुराध्वनि विधाय रवि शरव्यम् । आजिः सकार्मुककरस्य खलूरिकेव
रन्ध्र रवौ रिपुभिरैक्षि न चेत्कुतस्त्यम् ॥३२॥
यस्याकब्बरस्य राज्ञः आजिः संग्रामभूमिः खलूरिका शस्त्राभ्यासभूरिवाभूबभूव । यस्य किं कुर्वतः । सुराध्वनि गगनाङ्गणे रवि मार्तण्डमण्डलं शरव्य वेध्य विधाय कृत्वा प्रतिभूप. तीनां प्रतिपक्षक्षोणीपालानां प्राणाजीवितानि आशु त्वरिततरं गच्छन्ति परलोकं यान्ती त्याशुगाः शीघ्रगामिनः शराश्च तान्प्रणयतः सृजतः । यस्य किंभूतस्य । सह कार्मुकेन कोदण्डेन वर्तते यः स तादृशः पाणिर्यस्य । एवं चेन्न तर्हि रिपुभिः परिपन्थिपृथ्वीपतिभिः रवौ सूर्यबिम्बे रन्ध्र छिद्रं कुतस्त्यं कुतोभवमैक्षि विलोकितं दृष्टम् ॥
લેકાર્થ જાણે રણભૂમિ શસ્ત્રાભ્યાસની કલાભૂમિ જેવી બની ગઈ ! શાથી? ધનુષ્યસહિત , હાથવાળા બાદશાહના શીઘગામી બાણેથી શત્રુરાજાઓના પ્રાણ આકાશમાં રહેલા સૂર્યને લક્ષબનાવીને જલ્દી જલદી પરલોક ગયા. જો એમ ના હોય તે શત્રુરાજાઓએ સૂર્યમંડલમાં છિદ્ર ક્યાંથી જોયું હોય? ૩૨
येनाहवे प्रणिहतात्मपतिप्रवृत्ति
कृत्वा स्वकर्णपथिकी परिपन्थिकान्ताः। वक्षःशिलाः स्म विलिखन्ति नखागटकैः
कीर्तिप्रशस्तिमिव भूभृदकब्बरस्य ॥ ३३ ॥
परिपन्थिनां शात्रवधरित्रीभृतां कान्ताः प्रेयस्यः वक्षांसि हृदयान्येव शिलाः पृथुलपाषाणास्ता नखानां स्वकरजानामग्राणि शिखा एव टङ्काः पाषाणोत्कीर्णनकराण्यायसो. पकरणानि टङ्कणकानीति प्रसिद्धास्तैर्विलिखन्ति विदारयन्ति स्म । उत्प्रेक्ष्यते-भूभृतो