SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ सर्ग १० श्लो० ३०-३१] हीरसौभाग्यम् ८९ आकर्षणानि तथा आगमा आगमनानि तेषु कदाचिदपि कस्मिन्नपि समये प्रस्तावे अक्षिभिरात्मीयविलोचनैरपि नालक्ष्यत न दृश्यते स्म । क इव । प्रकर्षण सरन् चलन गच्छन्नाशुगवत् वायुरिव । यथा पवमान आगच्छन्न लक्ष्यते परं पुनरङ्गे काये लगन् प्रहृत्य मध्ये प्रविशन् सोऽबुध्यत ज्ञायते स्म ॥ શ્લોકાથ જેમ (આંખેથી) પવન આવતે-તે દેખાતું નથી પરંતુ શરીરને સ્પર્શ થવાથી જ જણાય છે તેમ સંગ્રામભૂમિ પર લઘુલાઘવી કલાથી બાદશાહનાં ભાથામાંથી નીકળતા બાણે લાખ શત્રુરાજાઓની આંખેથી દેખાતાં ન હતાં પરંતુ શરીર ઉપર લાગતાં હતાં ત્યારે જ જણાતાં હતાં. ૩૦ यं स्वर्णकायमरिनागनिपातनिष्णं दृष्टया निपीय हरिवाहनबद्धलीलम् । चित्रं किमत्र यदरातिमहीन्द्रबाहु कुम्भीनसैः समरमूर्ध्नि जडीबभूवे ॥ ३१॥ स्वर्ण जाम्बूनदं तत्सदृशो गौरवर्णत्वात्कायस्तनूलता यस्य तम्, तथा अरिषु परिपन्थिषु नागाः प्रधानाः । 'सिंहशार्दूलनागाद्याः । स्युरुत्तरपदे प्रख्याः प्रशस्तार्थप्रकाशकाः ॥ इति हैम्याम् । महिपालास्तेषां निपाते यमधामाजिरातिथीकरणे निष्णं निपुणम्, तथा हरिरश्व एव उपलक्षणाद्गजोऽपि वाहनं यानं तत्र बद्धा रचिता लीला क्रीडा वाह्यालीकाचा परस्परसंप्रहारादिका येन तादृशं यं पातिसाहिमकब्घरं दृष्ट्या विलोचनेन निपीयांपीय । भयविह्वलतरलकातरदृशा दृष्ट्वेत्यर्थः । यदरातयः यस्य विपक्षकक्षामङ्गीकुर्वाणा एव महीन्द्रा महामेदिनीमघवानस्तेषां बाहवो दोर्दण्डा एव कुम्भीनसा भुजंगमास्तै डी. बभूवे प्रहरणग्रहणबाणक्षेपणादिप्रकारे निश्चेष्टेः संजातम् । किंकर्तव्यतामूलैरिव आलेख्यलिखितैरिव वा निर्व्यापारैजज्ञे । अत्र प्रकारे किं चित्रं को विस्मयः । यद्गरुडदर्शनादेव तत्कालं व्याला अपि जडीभवन्ति एव । गरुडः किंलक्षणः । सुवर्णस्य कायः पक्षप्रभृति शरीरं यस्य । तथा अरिभूताः शत्रुभावं प्राप्ता ये नागा भुजगास्तेषां निपाते नितरां पाते निष्णो निपुणः । तथा हरेर्गोविन्दस्य वाहनत्बे यानभावे बद्धा निर्मिता लीला विलासो येन ॥ શ્લેકાર્થ યુદ્ધના અગ્રીમ મોરચે રહેલા કંચનવણી કાયાવાળા શત્રુરૂપ સર્વેને હણવામાં ही, सौ. १२
SR No.005968
Book TitleHeersaubhagya Mahakavyam Part 02
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages482
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy