________________
हीरसौभाग्यम् [सर्ग १ श्लो० १३६-१३७ बैणस्याजननीलिमाङ्कितपतवाप्पाम्बुपूरैरिव
श्मापीठे प्रसरद्भिराविरभवत् पाथोजवन्धोः मुता ॥१३६॥ यस्य साहेः प्रत्यर्थिपृथ्वीभुजां वैरिनृपाणां स्त्रैणस्य त्रीणां समूहस्य अञ्जनानां नयनकज्जलानां नीलिम्ना श्यामत्वेनाङ्कितैर्युक्तैः तथा पतन्निः दुःखभरालोचनेभ्यो निःसरद्भिः बाप्पाम्बुपूरै रोदनजलप्लवैः । इवोत्प्रेक्ष्यते-पाथोजवन्धो नोः सुता पुत्री यमुना आविरभवत्प्रकटीभूता । किं वा-'अये यदि समीहसे परनृपावरोध तदा, त्वमाकलय मद्वचः किमपि रूपनारायण !। प्रतीपनृपनागरीनयननीरकल्लोलिनी-समुत्तरणचातुरी तुरगराजमध्यापय ॥' इति कविकृतकाव्यादौ वाष्पजलेभ्यो नदीप्रादुर्भावः । तथा-'राम! त्वत्तरुणप्रतापदहनज्वालावलीशोषिताः, सर्वे वारिधयस्तवारिवनितानेत्राम्बुभिः पूरिताः' इति खण्डप्रशस्तौ वाष्पजलैः समुद्रसद्भावोऽपि वर्णितः। किंभूतैः पूरैः । मापीठे भूमण्डले प्रसरद्भिः प्रयःप्रवाहतया विस्तार गच्छद्भिः । विभूतस्य यस्य। द्वेषिणां निषूदने मूलादुन्मूलने व्रत सर्वेऽपि शत्रवो मयाऽवश्यमुच्छेदनीया इति रूप नियमजुपते सेवते तस्य। किंभूतानां प्रत्यर्थिपृथ्वीभुजाम् । संत्रासेनाऽस्याकस्मिकभयेन कलिन्दनाम्नो भूधरस्य शैलस्य गुहानां कन्दराणां गर्भो मध्यभागस्तस्याङ्कमुत्सङ्गमासेदुपां प्राप्तवताम् । कलिन्दाद्रिकन्दरामध्यप्रविष्टानामित्यर्थः ॥
શ્લોકાર્ચ શત્રઓને જડમૂળમાંથી ઉખેડી નાખવાના નિયમવાળા એવા આ બાદશાહના ભયથી કાલિંદપર્વતની ગુફામાં ભરાઈ ગયેલા શત્ર રાજાઓની સ્ત્રીઓના સમૂહના, અંજનથી શ્યામ બનેલા અશુજલના પ્રવાહના વિસ્તારથી જાણે આ પૃથ્વી ઉપર “યમુના” પ્રગટ થઈ હોય તેમ જણાય છે. ૧૩૬ मुत्रामाम्बुधिधामदिग्गिरिकुचद्वन्द्वाब्धिनेमीधवः
पृथ्वीपालललाटचुम्बितपदप्रोद्दामकामाङ्कुशः । द्यां स्वर्णाचलसार्वभौम इव यो निःशेपविश्वंभरां ।
शार.च्छात्रवगोत्रजिद्विजयते श्रीगुर्जरोर्वीपतिः ॥१३७।। श्रिया सप्ताङगलक्ष्म्या ऐश्वर्यशोभया वा युतो गुर्जराणां गुर्जरभूमे यक उर्वीपतिः पातिसाहिर्विजयते सर्वोत्कर्पण प्रवर्तते । किंभूतः। सुत्रामा शक्रः अम्बुधिधामा घरुणस्तयोदिशोः प्राचीप्रतीच्योगिरी पर्वतौ उदयास्ताचलाभिधानी तावेव कुचद्वन्द्व स्तनयुगलमस्यास्तादृश्या अधिनेमेः समुद्रसेखलाया भूमेघवो भर्ता। पुनः किंभूतः । पृथ्वीपालानां राज्ञां ललाटैलैिश्चुम्बिताः स्पृष्टाः पदयोश्चरणयोः प्रोद्दामाः प्रकृष्टाः कामाङ्कुशा