________________
सर्ग १ श्ला० १३४- १३५ - १३६] हीरसाभाग्यम्
जम्वालयद्भिर्जलदैरिवोर्वी, मदाम्बुभिर्यस्य वभे द्विपेन्द्रैः । दिग्जैत्रयात्रासु जितैर्दिगीशै-दिग्वारणेन्द्रैरुपदीकृतैः किम् ॥ १३४ ॥
यस्य साहेद्विपेन्द्रैर्गजराजैर्वभे व्यराजि । किं कुर्वद्भिः । जम्बालान्कुर्वन्तीति जम्बा लयन्ति जम्वालयन्तीति जम्बालयन्तः, तैर्जम्बालयुक्ता विदधद्भिः । काम् । उर्वी पृथ्वीम् । कैः । मदाम्बुभिः दानवारिभिः । कैरिव । जलदैरिव । यथा मेघभूर्जम्बालकलिता क्रियते । किमुत्प्रेक्ष्यते - दिशां हरितां जैत्रीषु जयनशीलासु यात्रासु अभिषेणनेषु । सेनासमुदायेन रिपून् प्रत्यभिगमनेष्वित्यर्थः । जितैः स्ववशीकृतैदिगीशैर्दिक्पतिभिरुपदीकृतैर्दो कतैद - ग्वारणेन्द्रैर्दिग्गजैरिव ॥
શ્લેાકા
બાદશાહના ગજરાજો પેાતાના મદના પાણીવડે મેધની જેમ પૃથ્વીને કાદવયુકત કરતા હતા તે જાણે, દિગ્માત્રામાં પરાજિત થયેલા દિક્પાલાએ આ રાજાને ભેટણારૂપે આપેલા દિગ્ગજો હાય તેવા શાભતા હતા. ૧૩૪ના
विश्वैकधन्वी शरसान्नृपोऽसौ मा क्वापि कुर्यात्परराजवन्माम् ।
जिजीविषुर्भीत इतीव राजा, नभो भ्रमीगोचरयांचकार ।। १३५ ।।
७१
राजा चन्द्रो नभो गगन भ्रमण्या (भ्रम्या) भ्रान्तेः । 'अपि भ्रमीभङ्गिभिरावृताङ्गम् ' इति नैषधे । गोचरीकरोति स्म गोचरयांचकार । नभसि बभ्रामेत्यर्थः । राजा किं कर्तु - मिच्छुः । जीजीविषुः साहेः सकाशाज्जीवितुमिच्छुः । इवोत्प्रेक्ष्यते - इत्यमुना प्रकारेण भीत चकित इव । इति किम् । विश्वे जगति पार्थं इवैकोऽद्वितीयो धन्वी धनुर्धरोऽसौ नृपः, परे शत्रवः, अन्ये च ये राजानस्तानिव मां राजान शरलाद्बाणविद्धम् । 'प्रसूनधन्वा शरसात्करोति माम् ' इति नैषधे । मा कुर्यात् । यथा साहिर्विपक्षक्षितिपान्बाणैर्विध्यति तथा मामपि बाणैर्मा हतादित्यर्थः ॥
લેાકા
ચંદ્ર આકાશમાં શા માટે ભ્રમણ કરે છે ? ‘આ વિશ્વમાં અર્જુનની જેમ અદ્રિતીય ધનુર્ધારી (બાણાવાળી) એવા આ રાજા, બીજા રાજાઓને જેમ ખાણેાવડે હણે છે તેમ મને પણ (રાજા=ચંદ્ર માનીને) ન હણા એ ભયથી જીવવાની ઇચ્છાવાલા થયેલા છે. તેથી જ જાણે આકાશમાં ભ્રમણ કરતા હોય તેમ જણાય છે. ૧૩પપ્પા
यस्य द्वेषिनिषूदनत्रतजुषः प्रत्यर्थिपृथ्वीभुजां
संत्रासेन कलिन्दभूधरगुहागर्भ किमासेदुषाम् ।