________________
६९
सर्ग १ श्लो० १२९-१३०-१३१] हीरसौभाग्यम् પ્રજા (પૃથ્વી) પીડાયેલી હોવા છતાં દિનપ્રતિદિન નવપરિણીત સ્ત્રીની જેમ ધનધાન્યાદિ અનેક પ્રકારની લક્ષ્મીને ધારણ કરતી હતી, જેમ નવેઢા સ્ત્રી આશ્લેષ વિગેરેથી પીડિત હોવા છતાં દિવસે દિવસે વધતા એવા સૌંદર્યને ધારણ કરે છે તેમ આ પૃથ્વી પણ અનેક પ્રકારની લક્ષ્મીવડે વધતી હતી. (૧૨૯
प्रजां द्विजिरिव पीडयमानां, कलेविलासैरवसाय विश्वाम् ।
तां शासितुं दाशरथिः किमात्त-जन्मा स्वयं साहिरसौ वभासे ।।१३०॥
असौ महमुन्दनामा साहिः पातिसाहिः वभासे राजते स्म । किमुत्प्रेक्ष्यते-तां विश्वां वसुधां शासितु पालयितु स्वयमात्मना पुनद्वितीयवारमात्तजन्मा गृहीतावतारो दाशरथी राम इव । किं कृत्वा । अवसाय विज्ञाय । काम् । विश्वां पृथ्वीम् । कि क्रियमाणाम् । कलेः कलियुगस्य विलासैविलसितैः । पीड्यमानां संताप्यमानाम् । कामिव । प्रजामिव । यथा प्रजां प्रकृति पुरदेशलोकां द्विजिह्वः पिशुनैः पीडयमानां कश्चित्प्रशास्ति।
બ્લેકાર્થ જેમ દુર્જન વડે દેશ અને નગરના લોકો હેરાન થાય છે તેમ પૃથ્વીને કલિયુગના વિલાસવડે પીડાતી જાણીને, તેનું રક્ષણ કરવાને માટે જાણે રામચંદ્રજીએ સ્વયં બીજીવાર અવતાર લીધો હોય તેવો આ મહમદ બાદશાહ શોભે છે. તા૩માં
पनिस्त्रिंशमन्थानगमथ्यमान-महाहवक्षीरधिजन्मना यः । वत्रे बलिध्वंसविधानधुर्यो, जयश्रिया शत्रुरिवासुराणाम् ॥१३१।।
यः साहिर्जयश्रिया विजयलक्ष्म्या बवे वृतः । क इव । असुराणां शत्रुरिव । यथा कृष्णो जयेनोपलक्षितया श्रिया वियते । किंभूतः । यः वलिनां वलवताम् । बल सैन्ये पराक्रमे च । रिपुनृपाणां बलेर्दै त्यस्य च ध्वंसविधान वधकरण तत्र धुर्यः समर्थः शत्रुवधविधायिनां धुरि गण्यः । किंभूतया जयश्रिया । निस्त्रिंशः खगः स एव मन्थानगः मन्दराद्रिः । 'मन्थानगः स मुजगप्रभुवेष्टिघृष्टिलेखाचलद्धवलनिर्झरवारिधारः' इति नैषधे । वासुकेर्वेष्टनघर्षणजातासु लेखासु भ्रमन्त्यो धवला निर्झरवारिधारा यस्य स मन्थाः । मथिन्शब्दस्य 'पथिमथ्यभुक्षामात् ' इत्यात्वे थेादेशे रूपम् । नगः शैलः मन्दराद्रिःइति तद्वत्तिः । तेन मथ्यमानो विलोड्यमानो यो महाहवो महासंग्रामः स एव क्षीरधिः दुग्धसमुद्रः तस्माजन्मोत्पत्तिर्यस्याः सा तया ॥
१ 'मन्थानग' इत्यस्य समासघटकत्वेन सुपरत्वाभावादात्वानुपपत्तेश्चिन्त्यमेतत् नैषधे तु समासाभावान्न
कोऽपि दोषः ।