________________
६७
सर्ग १ श्लो० १२५-१२६-१२७] हीरसौभाग्यम्
यस्मिन् पुरे विलासवत्यः प्रमदा विभान्ति । किं कुर्वन्त्यः । स्मरावरोधः कन्दपन्तिःपुर रतिस्तस्य भ्रम भ्रान्तिम् । 'स्मरावरोधभ्रममावहन्ती' इति नैषधे दमयन्ती. वर्णने । उद्वहन्त्यो विभ्रत्यः । किमुत्प्रेक्ष्यते-मन्मथमेदिनीन्दोर्मदननरेन्द्रस्य अमूः प्रत्यक्षाश्चक्षुर्लक्ष्या अमोघा अवन्ध्याः सफलाः शक्तयः प्रहरणविशेपाः । किंभूतस्य मन्मथस्य । त्रिजगतस्त्रिभुवनस्यापि विजेतुः पराभवशीलस्य ॥
सासाथ કામદેવની પત્ની રતિને ભ્રમ કરાવે તેવી સૌન્દર્યવતી સ્ત્રીઓ આ નગરીમાં શોભે છે. તે જાણે ત્રણે જગતને જીતનારી કામદેવરૂપી રાજાની સાક્ષાત શકિતઓ હોય તેમ જણાય છે.
त्यक्ताश्रवःकञ्चुकिकामुकाभिः, सकर्णयन्नागररागिणीभिः । स्वमन्दिरात् कुण्डलिनीभिरस्मिन् , किमीयुपीभिः शुशुभेऽङ्गनाभिः ।।१२६।।
अस्मिन् नगरे अङ्गनाभिः शुशुमे । किमुत्प्रेक्ष्यते-स्वमन्दिरान्निजनिकेतनान्नागलोकादीयुषीभिरागताभिः कुण्डलिनीभिर्नागाङ्गनाभिरिव । किंभूताभिः त्यक्ता उज्झिता अश्रवसः । अकर्णा वधिरा इत्यर्थः । कञ्चुकिनः सौविदल्लाः । कुजवामना इत्यर्थः । अथवा कृत्रिमक्लीवाः कामुकाः कामयितारः कान्ता याभिस्ताभिः । पुनः किंभूताभिः । सकर्णाः प्राज्ञाः श्रोतारो वा यस्याः पुर्या नागराश्छेकास्तेषु रागः स्नेहातिशयो विद्यते यासां तास्ताभिः । तेष्वनुरागयुक्ताभिरित्यर्थः ॥
પોતાના સ્થાનને ત્યાગ કરીને આવેલી જાણે નાગકન્યાઓ હોય તેવી, આ નગરની સ્ત્રીઓ શોભે છે, કાન વિનાના કચુકીઓને જેમણે ત્યાગ કર્યો છે એવી કામુકાઓ કર્ણસહિત અને ચતુર એવા આ નગરીના યુવાન પુરુષોમાં આસકત થયેલી નાગકન્યાઓ નાગકનો ત્યાગ કરી જાણે આ નગરીને શોભાવતી હોય તેવી આ નગરીની સ્ત્રીઓ શોભતી હતી.
भान्ति स्म यस्मिन् सुमनोभिरामा, रामा रमाधःकृतकामरामाः । स्वस्पर्धिन येन रुषेव देव-गृह निगृह्याप्सरसो गृहीताः ॥१२७।।
यस्मिन् नगरे रामा नागर्यो भान्ति स्म । किंभूताः । सुमनोभिः कुसुममालिकाभिः, अथवा सुमनस्त्वेन सतीत्वेन निष्पापत्वेन वा अभिरामा मनोहराः । पुनः किभूताः । रमाभिः वपुःप्रियरूपकसुषमाभिरधाकृते हीने विहिते तिरस्कृते कामस्य मदनस्य रामे रतिप्रीती याभिस्ताः । इवोत्प्रेक्ष्यते-येन प्रह्लादनपुरेण रुषा क्रुधा स्वस्पर्धिन निजसमृद्धया साध स्पर्धाविधायिन देवगृह स्वर्ग निगृह्य पराजित्य वन्दीकृत्य गृहीता अप्सरसः स्वर्गवध्व इव ॥