________________
सर्ग १ श्लो० १२०-१२१-१२२] हीरसौभाग्यम् । 'आघ्रात परिचुम्वित परिमुहुर्लीढ च यच्चर्वित', यद्दर निहितच नीरसतया तत्र व्यथां मा कृथाः । अन्तस्तत्त्वविचारणान्धवधिरे तद्वानरेणाधुना. रे माणिकूय तदेतदेव सुकृत यच्चूर्णित नाश्मना ॥' इत्यत्र केवलमाणिक्यमेव । 'शिशुतरमहोमाणिक्यानामहर्मणिमण्डली' इति नैषधे । प्रत्यग्रकिरणपारागाणामिति तद्वत्तिः । उत्प्रेक्ष्यते-भूपं नृपति भर्तारमनुलक्षीकृत्य पुरश्रिया उद्गीर्णो अत एव प्रकटीभवन् प्रकटो जायमानः अनुराग इव ॥
બ્લેકાર્થ બાલસુર્યની જ્યોતિના અત્યંત ગર્વને દૂર કરનારા પારાગ મણિઓવડે નિર્માણ કરાયેલાં એવાં કરડે ઘરે આ નગરીમાં શોભી રહ્યાં છે. તે જાણે રાજાને પતિ સમજીને નગરની લક્ષ્મીવડે વ્યક્ત કરાયેલ અનુરાગ હેય તેમ શોભે છે ll૧૨ના
प्रीतादुपास्त्याधिगता गिरीशा-न्निरङ्कनकाङ्गविधानविद्या ।
प्रपञ्चिता कौतुकिना किमेपा, चन्द्रेण यच्चान्द्रगृहच्छलेन ।।१२१।।
कौतुकिना कुतूहलाकलितेन चन्द्रेण एपा प्रत्यक्षलक्ष्या। निर्गतोऽङ्को लक्ष्म येभ्यस्तानि नैकानि वहूनि यान्यङ्गानि शरीराणि तेषां विधान निर्माण यस्यां तादृशी विद्या। यस्या नगर्याश्चान्द्रगृहाणां चन्द्रकान्तमणिमयमन्दिराणां छलेन कपटेन । किमुत्प्रेक्ष्यतेप्रपञ्चिता विस्तारिता । किंभूता विद्या । अधिगता प्राप्ता । कस्मात् । गिरीशादीश्वरात् । किंभूतात् । उपास्त्या नित्यसेवया प्रीतात् । प्रसन्नीभूतादित्यर्थः संतुष्टात् ।। इति गृहाः।
લોકાર્થ હમેશાં ઉપાસના કરવાથી પ્રસન્ન થયેલા ઈશ્વર પાસેથી પ્રાપ્ત થયેલી લાંછનરહિત શરીર બનાવવાની આ વિદ્યા, કૌતુકપ્રિય એવા ચંદ્રવડે આ નગરીનાં ચંદ્રકાન્ત મણીઓ વડે નિર્માણ કરાયેલાં ગૃહનાં બહાને જાણે વિસ્તારાઇ ન હોય તેમ જણાય છે. ઘર
यस्मिन्दिदीपे मधुदीपरूप-श्रीगर्व निर्वासिविलासिवृन्दैः ।
रूपस्मयं वीक्ष्य जयस्य तस्य, मदच्छिदे किं विधिना प्रणीतैः ॥१२२।।
यस्मिन् पुरे मधुदीपस्य मदनस्य रूपश्रिया शरीरसौन्दर्यलक्ष्म्या गर्वमभिमान निर्वासयन्ति निर्दलयन्तीत्येवंशीला ये विलासिनो भोगिनस्तेषां वृन्दानि तैदिदीपे चकासे। 'मधुदीपमारौ मधुसारथिस्मरौ' इति हैम्याम् । किमुत्प्रेक्ष्यते-जयस्येन्द्रपुत्रस्य रूपस्मय निजाङ्गचङ्गिमग वीक्ष्य दृष्ट्वा तस्य जयन्तस्य मदच्छिदे उन्मत्ततोच्छित्यै विधिना धात्रा कृतैः प्रणीतैरिव ॥