________________
सर्ग १ श्लो० ५१७-११८-११९] हीरसौभाग्यम्
यस्येति संवन्धात् । वेश्मनि क्वापि नगरीगृहे अश्मगर्भाणां मरकतमणीनामको मध्यो यस्य तादृश सिताश्मनां स्फटिकरत्नानां कुम्भ कलश निभाल्य दृष्ट्वा मुग्धा अचतुरा अभ्रधुन्या गगनापगाया आकाशगङ्गायाः रथाग्यश्चक्रवाक्योऽङ्घ्रीणां पदानां घातैः प्रहारैः घ्नन्ति प्रहरन्ति । किमुत्प्रेक्ष्यते इति क्रुधा नन्ति । इति किम्-यत् नोऽस्माकं द्विपन्नहितः अत एव विश्लेपयिता वियोगकारकः स प्रसिद्धः शशी मृगाङ्क इति रुपा॥
કલેકાર્થ નગરીના કેઈ ગૃહમાં, મધ્યમાં મરક્તમણિવાળા સ્ફટિક રત્નોના કલશને જઈને આકાશગંગામાં વિહરતી ભોળી એવી ચક્રવાકીઓ ચંદ્રને જાણે ક્રોધથી પાદપ્રહારવડે હણતી હેય તેમ જણાય છે. શાથી? અમારા વિયેગને કરાવનારે ચંદ્ર જ અમારે શત્રુ છે. ૧૧
अर्का शुसंपर्कचयार्ककान्तो-दभूतानलोमावनसंनिभस्य । गेहाग्रशृङ्गस्थगजद्विपद्भि-hष्यैरधृष्यस्य कथंचनापि ॥११८।। भियाऽभ्रमूवल्लभवाहनारेः, प्रणश्य शके शरण श्रयन्तः । लघूभवन्मन्दरमुख्यशैलाः, पुरस्य रेजुर्मणिहेमगेहाः ॥११९॥ ॥ युग्मम् ।।
पुरस्य मणिहेममया गेहाः सौधा रेजुर्भान्ति स्म । तत्रैवमह शङ्के विचारयामि। अभ्रमूनामा हस्तिनी । अभ्रमूशब्दो दीर्घोकारान्तोऽप्यस्ति । 'गजानामभ्रमूपतिः' इति काव्यकल्पलतायाम् । तथा 'अभ्रमूवल्लभारूढम्' इति पाण्डवचरित्रेऽपि । तस्या वल्लभो भर्ता ऐरावणः स एव वाहन यान यस्येन्द्रस्य स एवारिः शत्रुस्तस्य भिया भयेन प्रणश्य स्वस्थानान्न'ष्ट्वा पुरस्य शरणमाश्रयन्तो भजन्तस्तथा लघूभवन्तः स्वल्पतनवः संपद्यमाना मन्दरमुख्याः । मन्दरो जैनमते मेरुः । शैवशासने तु मन्दरोऽन्य इन्द्रकीलनामा मन्था नगः स एव प्रधान येषु ते शैलाः पर्वता इव । इह पुरे शत्रुप्रवेशाभावे कारणद्वयमाहकिंभूतस्य पुरस्य । अर्कस्य भानोरंशवः किरणास्तेषां संपर्कः संगमस्तेन चयस्य वप्रस्य प्राकारपीठभूमिकासंदृब्धेभ्योऽर्ककान्तेभ्यः सूर्यकान्तमणिभ्य उद्भूतः प्रकटीभूतो योऽनलो वह्निस्तेनोमावनसंनिभस्य बाणासुरपुरसदृशस्य । तत्र हि वह्निप्राकारोऽस्तीति ख्यातिः। तथा 'यथोह्यमानः खलु भोगिभोजिना प्रसह्य वैरोचनिपुत्रपत्तनम् । विदर्भजाया मदनस्तथा मनोऽनलावरुद्ध वयसैव वेशितः ॥' इति नैषधे। एतत्काव्योपरि पुरावृत्तमुच्यतेपूर्व हि स्त्रीकार्यादन्यत्राजेयो भावीत्याराद्धगौरीपतिसुपर्वदत्तवरस्य वाणासुरस्य उषानाम्न्या कन्यया गौरी कुलदेवीमाराध्य मम को भर्ता भविष्यतीति प्रश्ने कृते प्रद्युम्ननन्द