________________
हीरसौभाग्यम् सर्ग १ श्लो० ११४-११७ નામના અસુરનો નાશ કરવાને જતા કૃષ્ણના પાદપ્રહારથી નીકળેલી જાણે ગંગાનદી હેય તે શોભતો હતો. ૧૧૪
ज्योतिस्तरङ्गीकृतयन्निकेत-हरिन्मणीशालिशिखा चकासे । इदंपदव्येव पतङ्गपुत्री, नभः प्रयान्ती मिलितुं स्वतातम् ॥११५।।
ज्योतिभिः कान्तिभिस्तरङ्गीकृतानां कल्लोलयुक्तीकृतानां यन्निकेतानां नगरीगृहाणां हरिन्मणीभिर्नीलरत्नैः शालते शोभते इत्येवंशीला शालिनी शिखा उपरितनप्रदेशः चकासे शुशुमे दिदीपे वा । उत्प्रेक्ष्यते-इदंपदव्या एतन्नगर मन्दिरशिखरमार्गेण । 'इदंयशांसि द्विषतः सुधामुचे' इति नैषधे । 'अस्य कीर्तयः इति तद्वत्तौ । समासान्त एव इदंशब्दः । स्वतात भास्करम् । 'सूर्यजा यमी' इति हैम्याम् । तथा 'यावद् गङ्गातपनतनयाभारतीनां समाजे' इति पूर्वकविकृतौ । मिलितु प्रयान्ती गच्छन्ती पतगपुत्री यमुनेव ॥
साथ કાંતિવડે તરંગરૂપે કરાયેલાં નગરીનાં ગૃહાનાં નીલરનથી દેદીપ્યમાન શિખરે, જાણે આ માગે (મંદિરના શિખર માગે) આકાશમાં પોતાના પિતા સૂર્યને મળવા જતી એવી યમુના નદી જ હોય તેવાં અત્યંત શોભે છે. ૧૧૫
गाङ्गेयगारुत्मतपद्मराग-चन्द्राश्मवेश्मावलिरुल्ललास । प्रेयांसमुद्दिश्य महीमहेन्द्र, पुरश्रिया क्लुप्त इवाङ्गरागः ॥११६॥
गाङ्गेयानि सुवर्णानि, गारुत्मतानि हिरण्मणयः, पद्मरागा रक्तोपलाः, चन्द्राश्मानः शशिकान्तमणयः । तैर्निवद्धा घटिता वेश्मावलिः सौधश्रेणिरुल्ललास स्फुरति स्म । उत्प्रेक्ष्यते-महीमहेन्द्र भूमीवासवं राजान स्वप्रेयांस निजकान्त प्रत्युद्दिश्य पुरश्रिया नगरलक्ष्म्या अग्गरागो विलेपन क्लप्तो रचितः । अन्यापि स्त्री भर्ना समग चिकीर्षुर्वपुष्यङ्गराग कुरुते ॥
શ્લોકાઈ આ નગરીમાં સુવર્ણ નીલમણિ રક્તમણિ અને ચંદ્રકાંતમણિઓવડે નિર્માણ કરાયેલી ગૃહોની પંકિત જાણે પિતાના પ્રિય એવા પૃથ્વીરૂપી રાજાને ઉદ્દેશીને કરાયેલું નગરલક્ષ્મીનું વિલેપન હોય તેવી સુશોભિત હતી. ૧૧૬
वेश्माश्मगर्भाङ्कसिताश्मकुम्भ, निभाल्य मुग्धाभ्रधुनीरथाङ्ग्यः । शशी स विश्लेषयिता द्विपन्नः, क्रुधेति त नन्ति किमङ्घिघातैः ॥११७।।