________________
हीरसौभाग्यम्
कर्णवेणी कलकण्ठकण्ठी, विम्बाधरा सिन्धुरराजयाना ।
प्रसूननेत्रा स्तवकस्तनी च भुक्ता वनश्रीरिह गन्धवाहैः ||१७||
सर्ग १ श्लो० ९७-९८]
५३
इह स्थाने पुरीहिः परिसरे वनश्री रुद्यानलक्ष्मीर्गन्धवाहैर्भुक्ता विलसिता । अन्यापि स्त्री वने गन्धस्य मृगनाभिचन्दनादिसौरभस्य वाहैर्धारकैर्युवभिर्भुज्यते । किंभूता वनश्रीः स्त्री च । दृक्कर्णा भुजङ्गा एव तत्तुल्या च वेणी कवरी यस्याः सा । पुनः किंभूता । एकोऽपि चकारः सर्वत्रापि योज्यः । कलकण्ठानां कोकिलानां कण्ठो ध्वनिर्यस्याः तत्तुल्यश्च ध्वनिर्यस्याः सा । 'कण्टो ध्वनौ संनिधाने ग्रीवायां मदनद्रमे' इत्यनेकार्थः । च पुनः किं - भूता । बिल्व गोहक वा तदेव तत्सदृशश्च अधर ओष्ठो यस्याः । पुनः किंभूता । सिन्धुरराजानां गजेन्द्राणां यानं गमनं तद्वद्वा गतिर्यस्याः । च पुनः किंभूता । प्रसून पुष्पमेव तत्समान' नेत्र ं नयनं यस्याः सा । च पुनः किंभूता । स्तबकौ कुसुमगुच्छौ एव तत्स्वरूपौ स्तनौ कुचौ यस्याः सा ॥ इति प्रह्लादनपुरोपवनवर्णनम् ॥
શ્લેાકા
આ નગરની બહારના ભાગમાં રહેલા ઉદ્યાનની લક્ષ્મી ગ ંધવાહકા(વાયુ)વડે ભાગવાતી बती. (वनलक्ष्मी भ्मने स्त्री वा प्रभारनी ?) वनलक्ष्मी - सर्पों३यी लेनी वेएगी छे. स्त्री-नाग नेवी શ્યામ જેની વેણી છે. વનલક્ષ્મી-કાકિલાના સ્વરરૂપી જેનેા મધુર સ્વર છે. સ્ત્રી-કાકિલાના સ્વર જેવા જેના મધુર અવાજ છે. વનલક્ષ્મી—બિૉંબ (બિલુકલ અથવા પાકેલા ગાલા—ગીલેાડાના ફળ)રૂપી જેના અધર છે. સ્ત્રી-બિબલ જેવા જેના લાલ અધર છે. વનલક્ષ્મી-ગજેંદ્રોના ગમનરૂપી જેની ચાલ (गति) छे. स्त्री-हाथीनी यास नेवी नेनी सुंदर न्यास छे. वनलक्ष्मी - विस्वर पुष्येोइया ने नेत्रो છે. સ્ત્રી વિશ્ર્વર પુષ્પ જેવાં જેના સુંદર નેત્રો છે. વનલક્ષ્મી-પુષ્પાના ગુચ્છારૂપ જેના સ્તન છે એવી વનલક્ષ્મી શેાભે છે. શાહ્કા
कम्रेण वप्रेण वसुप्रभेणाऽ - सतीव यूना सह संसिसृक्षुः ।
दूतीं चिकीर्षुः परिखामिवास्य, स्थितानुबिम्बेन निकुञ्जलक्ष्मीः ||८||
निकुञ्जलक्ष्मीर्वनश्रीरनुबिम्बेन प्रतिविम्बितेन कृत्वा स्थिता । अर्थात् परिखापयसि तिष्ठति स्म । उत्प्रेक्ष्यते - अस्य पुरस्य परिखां दूतीं संदेशहारिकां स्वेच्छया परदारपुरुषेषु संचारभाजोरभिसारिकयोः पुरुषयोषितोर्मिथः संदेशादीनुक्त्वा दत्त्वा च मिथः संगमकारिकावार्ता चिकीर्षुः कर्तुमिच्छुरिव स्थिता । दूतीकरणे हेतुमाह - वनश्रीः किं कर्तुमिच्छुः । संसिसृक्षुः । सङ्ग ं कर्तुमिच्छुः । 'निर्वापयिष्यन्निव संसिसृक्षुः' इति नैषधे । केन । वप्रेण प्राकारेण । 'वप्रत्रय' चारुचतुर्मुखाङ्गता' इति हैम्याम् । तथा 'वप्रः प्राकाररोधयोः । क्षेत्रे तते चये रेणौ' इत्यनेकार्थः । किंभूतेन । कम्रेण मनोज्ञेन । काम्य क