________________
४८
हीरसौभाग्यम् [सर्ग १ श्लो० ८६-८७-८८ यत्र भ्रमद्धृङ्गरसालमाला, विलोक्य कूजत्कलकण्ठवालाः । रतीशवीरस्तृणवत्रिलोकी-मजीगणन्निस्तुलशस्त्रलाभात् ।।८६।।
यत्र वने भ्रमन्तो मकरन्दपानार्थमितस्ततः पर्यटन्तो भृङ्गा मधुकरायासु तादृश्यो रसालमालाः सहकारपङ्क्तीविलोक्य निस्तुलानामसाधारणानां प्रतिभटकोटीभिरप्यभिभवितुमशक्यानां शस्त्राणामायुधानां लाभात्प्राप्तेः । रतीशवीरःस्मरसुभटस्त्रिलोकी जगत्त्रयीं तात्स्थ्यात्तद्वयपदेशान्नाकिनागनागरान् तृणवत्तणमिव अजीगणत् गणयति स्म मन्यते स्म वा । किंभूता रसालमालाः । कूजन्त्यः पञ्चमध्वनिमुद्भावयन्त्यः कलकण्ठानां कोकिलानां बालाः स्त्रियो यासु ताः ॥
શ્લેકાર્થ - જે ઉપવનમાં કોયલો પંચમસ્વરને પ્રગટ કરી રહી છે, તથા ભ્રમરો આમતેમ ભમી રહ્યા છે. એવા પ્રકારની આમ્રવૃક્ષની પંકિતને જોઇને કામદેવ પિતાને અસાધારણ એવા શસ્ત્રને લાભ થવાથી જાણે ત્રણે લેકને તૃણની જેમ તુચ્છ ગણતો હતે. પ૮૬
चूतप्ररोहायुधकिंशुकाध-चन्द्राशुगानां दलवर्मितानाम् । यद्भूरुहां स्वर्द्वजयोद्यताना-मदुन्दुभीयन्त पिका कणन्तः ॥८७॥
स्वर्भूरुहां कल्पवृक्षाणां जयाय पराभवायोद्यतानां प्रगल्भमानानां कृतोद्यमानां यस्य वनस्य भूरुहां तरूणां क्वणन्तः कूजन्तः पिकाः कलकण्ठा अदुन्दुभीयन्त दुन्दुभय इवाचरन्ति स्म । किंभूतानां भूरुहाम् । चूतानां माकन्दानां प्ररोहा अङ्कुरास्त एवायुधानि प्रहरणानि येषां ते तथा किंशुकानि पलाशकुसुमानि तान्यैवार्धचन्द्राकारा आशुगा वाणा येषां पश्चात्कर्मधारयः । पुनः कि भूतानाम् । दलैः पत्रैः कृत्वा वर्मितानां संनाहितानां कवचयुक्तीभूतानां तथा दलानि सैन्यानि वर्माणि कवचास्तानि संजातानि एषामिति वा॥
साथ કપક્ષોને પરાભવ કરવામાં ઉદ્યત થયેલા એવા વનના વૃક્ષોના, આમ્રવૃક્ષોના અંકુરારૂપી શસ્ત્રોવાળાં પલાશનાં પુષ્પોરૂપી અર્ધચન્દ્રાકાર બાણાવાળાં અને પાંદડાઓફપી બખ્તરવાળાં છે. સૈન્ય જેમને એવાં આ વનના વૃક્ષો ઉપર શબ્દ કરતી કેયલે દુભિ વગાડતી હોય તેમ જણાતી હતી તેના
अथ ग्रीष्मःહવે ગ્રીષ્મઋતુનું વર્ણન કરે છે—
वभे नभस्याम्बुधरायमाण-तमालधारागृहधोरणीभिः । तपर्तुताम्यत्तनुकुञ्जलक्ष्म्याः , सुसीमतायै किमनुष्ठिताभिः ॥८॥