________________
%3
सर्ग १ श्लो० ७९-८०-८१-८२] हीरसौभाग्यम्
કલેકાર્થ શ્રી પ્રહલાદ નામના વિહારમાં (ચૈત્યમાં) પૂર્વે નિરંતર સેળ મણ (૧૬ મણ) સેપારીઓ આવતી હતી. શ્રી પાર્શ્વનાથ ભગવાનની સેવા કરીને પોતાના ઉઠેગને જાણે દૂર કરવા માટે એ સોપારીઓ નિરંતર આવતી ન હોય ? ૭૯
अशीतिरस्मिन्नधिकाश्चतुर्भि-महेभ्यमुख्याः श्रितशीकरीकाः । सुरा विमानैरिव याप्ययानैः, स्मागत्य शृण्वन्ति गिरं गुरूणाम् ॥८॥
अस्मिन् प्रल्हादनपुरे चतुर्भिरधिका अशीतिः। चतुरशीतिरित्यर्थः। महेभ्यमुख्याः प्रकृष्टव्यवहारिणोऽर्थात् प्रल्हादनपार्श्वनाथ प्रणम्य गुरूणां धर्माचार्याणां गिर वाणी देशनां शृण्वन्ति स्म शुश्रुवुः । किंभूताः । श्रिताः शीको महेभ्यताया राजमान्यताया वा चिह्नविशेषा यैः आसन्न(न)विशेषा वा छत्राकृतयो वा। फिरङ्गदेशप्रसिद्धाः। किं कृत्वा। आगत्य । कैः । याप्ययानैः शिविकाभिः । कैरिव । विमानैरिव । यथा देवा विमानैरागच्छन्ति ॥
साथ આ પ્રહલાદનપરમાં રાજમાન્ય, મહાન ધનાઢય અને “શીકરીકા’ નામના ચિહ્નને ધારણ કરનારા એવા રાશી (૮૪) શ્રેષ્ઠીઓ, જેમ દે વિમાનમાં આવે છે તેમ શિબિકા (પાલખી)માં આવી શ્રી પાર્શ્વનાથ ભગવાનને નમસ્કાર કરી, પછી શ્રી ધર્માચાર્ય (ગુરુ મહારાજ)ની વાણીને હંમેશાં સાંભળતા હતા. ૮
अथ रत्नपुरुषोत्पत्तिस्थानकतां कविर्दर्शयतिહવે કવિ પુરુષોના ઉત્પત્તિસ્થાનને બતાવતા કહે છે— वपुःश्रिया भसितमच्छकेतु-रद्वैतवैराग्यरसाम्बुराशिः । लब्धीर्दधानो विविधाश्च वज्र-स्वामीव विश्वागमपारदृश्वा ।।८१।। सोमादिमः सुन्दरसूरिसिंहः, प्राग्वाटवंश्यो निजजन्मना यत् । साकेतमिक्ष्वाकुकुलावतंसो, महोक्षलक्ष्मेव पुरापुनीत ॥८२॥ ॥युग्मम्॥
प्राग्वाटानां वंशे भवः प्राग्वाटवंश्यः । सोम इति शब्द आदिमः प्रथमो यस्य स सुन्दरनामा सूरिष्वाचार्येषु सिंहो मुख्यः । 'सिंहशार्दूलनागाद्याः प्रशस्यार्थप्रकाशकाः' इति हैमीवचनात् । एतावता श्रीसोमसुन्दरसूरीन्द्रः निजस्यात्मनः उत्पत्त्या कृत्वा यत्प्रल्हादनपुर पुरा पूर्वमपुनीत पवित्रीचकार । क इव । महोक्षलक्ष्मेव । यथा इक्ष्वाकूणां कुलस्य वंशस्य अवतंसः शेखरः श्रीवृषभलाञ्छनो जिनो भाविनि भूतोपचारात् । साकेत कोशलां नगरी स्वजन्मना पावनीकरोति स्म । सूरिः किंविशिष्टः । वपुषः शरीरस्य श्रिया