SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४० हीरसौभाग्यम् [सर्ग १ श्लो० ७१-७२ रघूद्वहोपक्रममब्धिमध्य-स्थायीव सेतुः शशिकान्तकलृप्तः । चन्द्राचिराश्लेपविनिर्यदर्णः-पूर्णान्तिकः कापि चकास्ति. यस्मिन् ॥७१।। यस्मिन् प्रह्लादनपुरे क्वापि कुत्रापि स्थाने शशिकान्तैश्चन्द्रोपलैः क्लुप्तो रचितः सेतुः पद्या चकास्ति । नगरवर्णने च चन्द्रकान्तसूर्यकान्तमयाः सेतवो वर्ण्यमाना दृश्य न्ते । यथा नैषधे–'रविकान्तमयेन सेतुना सकलाहवलनाहितोष्मणा' इति । किंभूतः । चन्द्रस्यार्चिषः कान्तेराश्लेषेण संपर्केण विनिर्यद्भिर्गच्छद्भिरणभिः पानीयैः पूर्णे पूरिते भरिते अन्तिके समीपे द्वे पाश्वे यस्य सः । क इव भाति । रघूनहोपक्रमसेतुरिव । यथा रघूद्वहेन दशरथनन्दनेन रामेण आदावुपक्रान्तः मन्दोदरीप्रमुखसपादलक्षान्तःपुरीपतित्वेऽपि परदारातिलम्पटतया स्वभगिनीशूर्पणखाव्यावर्णिताद्वैतरू[प]लक्ष्मीसमाकर्णनतत्सङ्गमोत्सुकितदशमस्तकापहृतस्वकान्तासीतानयनाय लङ्कागमनावसरे रघुनन्दनेन समुद्रोपकण्ठादारभ्यः लङ्कां यावन्निबद्ध इत्यर्थः । तादृशः सेतुश्चकास्ति । किंभूतः । अब्धेर्दक्षिणसमुद्रस्य मध्ये विचाले तिष्ठतीत्येवंशीलः ॥ કાઈ પ્રહલાદનપુર નગરના કોઈક સ્થાનમાં ચંદ્રકાંત મણિઓથી બંધાએલે એ સેતુ (પલ) શોભે છે. તે સેતુ ચંદ્રની સ્નાના સાગથી નીકળી રહેલાં પાણીથી જેના બે બાજુના ભાગ પૂર્ણતયા ભરેલા છે એ તે પુલ પૂર્વે શ્રીરામે સીતાનું અપહરણ કરનાર રાવણ પાસેથી સ્વપત્ની સીતાને લાવવા લંકા જવા માટે સમુદ્રના કિનારાથી આરંભીને છેક લંકા સુધી જે પુલ બાંધ્યો હતો, તેના જેવો જાણે સમુદ્રની વચમાં રહેલે હેય તે શોભે છે. ૭૧ कचित्पुरं प्रत्यफलत्तटाको-दरे जगत्पत्तनजित्वरश्रि । येनाभिभूति गमिता महेन्द्र-पुरीव दुःखादिह दत्तझम्पा ॥७२॥ जगतां त्रयाणां भुवनानां पत्तनानां यावन्नगराणाम् । अत्र पत्तनशब्दः सामान्यतः पुरनगरवाची । न विशेषद्योतकः । जित्वरी जयनशीला पुंवद्भावे ईकारो गतः । श्रीः संपत् शोभा वा यस्य तत्तथोक्तपुर नगरम् । क्वचित्कुत्रापि समीपभूभागभाजि तटाकोदरे सरोमध्ये प्रत्यफलत्प्रतिविम्वति स्म । नैषधेऽपि नगरस्य जलाशये प्रतिफलन दृश्यते । यथा-'विललास जलाशयोदरे, क्वचन द्यौरनुविम्वितेव या' इति। इवोत्प्रेक्ष्यतेयेन प्रह्लादनपुरेणाभिभूति स्वाद्वैतश्रिया पराभव गमिता प्रापिता सती दुःखाजगत्समक्षस्वविजयकरणजातात् सा तादृशे तटाकोदरे दत्ता झम्पा अगाधतलमध्ये संपातपाटव यया तादृशी महेन्द्रपूरिन्द्रनगरीव अमरावतीव ॥
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy