SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ % 3D सर्ग १ श्लो० ६६-६७] हीरसौभाग्यम् શ્લોકાર્થ લક્ષ્મીયુકત એવું એક સ્તંભનપુર અને બીજું અણહિલપુર પાટણ એ બે નગરો ગુર્જર દેશરૂપી લક્ષ્મીના મુખ્ય સમાન અમદાવાદ (રાજનગર)ના જાણે બે કુંડલે હોય તેમ તે દેશની બંને બાજુ બે નગરો શોભે છે. ૬૬ विभूतिभाकालभिदङ्कदुर्गः, क्रीडत्कुमारः सकलाधरश्च । अहीनभूषः सवृषः सुपर्व-सरस्वतीभृद् भववद्धभौ यः॥६७॥ यो देशो भववदीश्वर इव बभौ भाति स्म । किंभूतो देशो भवश्च । विशिष्टां भूति लक्ष्मी विभूति संपद वा भस्म च भजतीति । 'भूतिस्तु भस्मनि मांसपाकविशेषे च संपदुत्पादयोरपि' इत्यनेकार्थः। पुनः किंभूतः । कालं कलिकाल सर्वदापि सर्वसुखानुभवनत्वाद्यमन्मण्डले कलियुगस्य प्रवेशमात्रमपि नास्तीति । तथा-दैत्य कालनामान भिनत्तीति कालभित् । पुनः किंभूतः । अङ्के कोडे दुर्गाः कोट्टाः पार्वती च यस्य सोऽङ्कदुर्गः । पुनः किंभूतः । क्रीडन्तो विविधबालावस्थोचितकेलिपरायणा रममाणाः कुमारा बालकाः । तथा क्रीडन् वालवयोयोग्यां यौवनसमययोग्यां वा क्रीडां विलासं कुर्वन्कुमारः स्वामिकार्तिको यस्य यत्र वा स क्रीडत्कुमारः । पूर्व हि तारकासुराभिभूताः पुरंदरप्रमुखाः सर्वे सुरा विधातुः पावें गत्वा खदेवीरत्नमञ्जूषाग्रहणसुरद्रुमोन्मूलनादिकमात्मपराभव निवेदयामासुः । तदनु ब्रह्मणोक्तम्-'प्रागनेन दुस्तपस्तप्त्वा मामतिप्रसन्न प्रणीय सप्तवासरशिशु मुक्त्वा परः कश्चित्सुरो नरो वा मां हन्तुं न शक्नुयादिति मत्तो वर जग्राह । ततः स्वयमुप्तविषवृक्षोऽपि स्वेनैव छेत्तुमसांप्रतम् । तस्मान्ममैवाय हन्तुमनुचितः । ततो यदा ईश्वरः पार्वती परिणेष्यति तत्सुतः सप्तमे दिने युष्माकं सेनानीत्वमङ्गीकृत्य तारक हनिष्यति'। ततो मुदिता देवाः। स्वस्थानमागत्य कामःप्रेषितः। स शंभुना भस्मीकृतः । ततो गौरीतपसा प्रीत ईश्वरः(तां)परिणिनाय । तत्पुत्रः स्वामिकातिको जातः-इति कुमारसंभवे । पुनः किं भूतः। कलाश्चतुःषष्टिसप्ततिश्च धरन्तीति तादृशैः स्त्रीपुरुषैः सह वर्तते यः । पक्षे कला षोडशांशः षोडश कला बिभर्तीति तादृशेन शशिना सह वर्तते यः पुनः कि भूतः । अहीनां संपूर्णाम् । तथा अहीनां सर्पाणामिनः स्वामी तेन भूषा शोभा यस्य । पुनः किंभूतः । वृषेण धर्मेण वृषभेन वर्तते यः । पुनः किंभूतः । सुशोभनानि पर्वाण्यक्षत(य)तृतीयादीनि सरस्वती नाम्नी नदी सुरसरित वा बिभर्तीति ॥ ગુર્જરદેશને ભગવાન શંકરની ઉપમા આપવામાં આવી છે ગુર્જરદેશ ભગવાન શંકરની જેમ शामेछे.
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy