________________
३४
हीरसौभाग्यम्
कैदारिकं कापि समञ्जरीक - शालि व्यलासीन्नद संनिधाने । रोमावली नाभिविभासिमध्य - देशे किमेषा विषयेन्दिरायाः ||६० ॥
[ सर्ग १ श्लो० ६० - ६१-६२
यत्र कापि कस्मिन्नपि प्रदेशे समञ्जरीकाः कलिकाकलिताः शालयो यत्र तत्तथोक्त कैदारिक' केदारवारों नदसंनिधाने द्रह (हृद ) संनिधाने व्यलासीद्विलसति स्म । किमुत्प्रेक्ष्यते - विषयेन्दिरायाः देशश्रियाः नाभिना तुन्दकूपिकया । नाभिशब्दः पुंस्त्रियोः । विभासिनि शोभनशीले मध्यदेशे उदरे । एषा प्रत्यक्षलक्षा रोमावली लोमलेखेव ॥
શ્લેાકા
કોઇ કા પ્રદેશમાં સરાવર પાસે મજરીએથી સહિત એવા કયારાઓ દેશરૂપી લક્ષ્મીની નાભિથી સુશૅાભિત એવા ઉદર ઉપર રહેલી શાભે છે. ઉના
કયારાએ શેાલતા હતા, તે સાક્ષાત રામરાજી હેાય તેમ
उत्तालता करतालिकाभिः सृजन्ति गीतीरिह शालिगोप्यः । श्रिया समग्रान्विपयान्विजित्य, कीर्तीः स्थितानामिह गुर्जराणाम् ||६१||
इह गुर्जरदेशे उत्तालतालमुत्तालास्त्वरितवादिनस्ताला यत्रैव यथा स्यात्तथेति क्रियाविशेषणम् । करतालिकाभिर्हस्ततालाहतिध्वनितैः । शालीनां कमलक्षेत्राणां गोप्यो रक्षिका गीतीर्मधुरध्वनितालालापगानानि सृजन्ति कुर्वन्ति । इवोत्प्रेक्ष्यते - श्रिया सर्वातिशायिलक्ष्म्या समग्रान् भूमीमण्डलवर्तिसमस्तान् विषयान् मण्डलान् विजित्य स्थितानामेकस्थानस्थायुकानां गुर्जराणां गूर्जरनामदेशानाम् । देशानामग्रे बहुत्वमेव वाच्यम् । कीर्तीर्य - शांतीव गायन्ति ॥ इति केदाराः ॥
શ્લેાકા
જાણે પેાતાની સર્વાધિક લક્ષ્મીવડે. ભૂમંડલના સમસ્ત દેશાને જીતીને રહેલા એવા એક ગુર્જરદેશની કીર્તિને જ જાણે ગાતી હોય તેવી આ ગુર્જરદેશમાં શાલિ આદિ ક્ષેત્રોની રક્ષિકાએ (ખેડુત સ્ત્રીઓ) તાલબદ્ધ અવાજે હાથથી તાલીએ પાડતી મધુર સ્વરે ગરબા ગાય છે. ૫૬૧૫
कुत्रापि दम्यैरनुगम्यमानाः, सरिद्वरायाः सखितां दधानाः । यद्गोचरे द्रोणदुधाश्चरन्ति, मूर्ता ः समाज्ञा इव मण्डलस्य ॥ ६२॥
कुत्रापि कस्मिन्नपि स्थाने क्वचन गुर्जरदेशप्रदेशे यस्य देशस्य गोचरे गवां चरणस्थाने । द्रोणपरिमाणं दुग्धमासामिति द्रोणदुघा गावश्चरन्ति । 'चर गतिभक्षणयोः' अय' प्रयोगः । तृणादि भक्षयन्ति । गावः किं क्रियमाणाः । दम्यैर्वत्सतरैरनुगम्यमानाः । स्वप्रौढवत्ससहिता इत्यर्थः । पुनः किं कुर्वाणाः । सरिद्वराया गङ्गाया सखितां श्वैत्यात्सा