________________
५५०
हीरसौभाग्यम् [सर्ग ८ श्लो० ८९-९१
લેકાર્થ દેવીના કંઠપીઠે બલાત્કારે ગ્રહણ કરેલી પોતાની લક્ષ્મીને જોઈને સર્વે શંખો ગાંડા જેવા બની ગયા. તેથી જ જણે ભિક્ષકોની સેવા કરતા ઘેર ઘેર પોકાર કરતા ન હોય ! ! ૮૯ છે
युनो मनोजन्मनृपस्य तस्या, वपुलतावासनिकेतभाजः ।
शृङ्गारभूषासुषमादिदृक्षो-रिवात्मदर्शः शुशुभे तदास्यम् ॥ ९० ॥ तस्यास्त्रिदश्या आस्य शुशुमे रेजे। उत्प्रेक्ष्यते-यूनस्तरुणस्य मनोजन्मनृपस्य स्मरराजस्य आत्मदर्शो दर्पण इव । किंभूतस्य मनोजन्मनृपस्य । यस्या देव्या वपुलता शरीरयष्टी सैवावासार्थ वासकृते निकेन भवन भजतीति तस्य । पुनः किं कर्तुमिच्छोः । शृङगारार्थ शोभाकृते या भूषा भूषणानि । 'तस्मै स्वभूषादृषदंशुशिल्पबलिद्विषः कार्मु. कमर्पयन्ती' इति नैषधे । 'निजभूषणमणिकिरणगणव्यतिरेकेण' इति तद्वत्तिः। तेषामाभरणानां सुषमां सातिशायिनी शोभाम् । 'सुषमा सातिशायिनी' इति हैम्याम् । 'सा अतिशायिनी शोभा सुषमा प्रोच्यते' इति तवृत्तिः । तां दिदृक्षोः द्रष्टुमिच्छोः। 'तावदेव ऋषिरिन्द्रदिदृक्षुः इति नैषधे । 'नारदर्षिरिन्द्र द्रष्टुमिच्छुः' इति तद्वृत्तिः ॥
કલેકાર્થ દેવીનું મુખ શોભે છે. કેવું ? દેવીના શરીરરૂપી મહલમાં જેને વાસ છે, તેમજ જેણીના શૃંગાર માટે બનાવેલા આભૂષણોને જોવાની ઇચ્છાવાળા કામદેવરૂપી તરુણ રાજાનું જાણે દર્પણ ન હોય ! ૯૦ છે
कृष्णच्छविं भ्रयुगलीं दधान, ज्योत्स्नासुधापायि चकोरचक्षुः । उत्सङ्गसङ्गीकृततारदन्त-मास्यं त्रिदश्याः शशिबिम्बति स्म ॥ ९१ ॥
त्रिदश्याः शासनामाया आस्य वदन शशिबिम्बति चन्द्रमण्डलमिवाचरति । 'सर्वप्रातिपदिकेभ्यः क्विप् वाचारे इत्येके' इति विप्प्रत्यये शशिबिम्बतीति सिद्धम् । किं कुर्वाणम् । लक्ष्म लाञ्छन तद्वत्कृष्णा मेचका छविः कान्तिर्यस्यास्तादृशी भ्रयुगलीमूर्ध्व नयनयोरुपरिप्रदेशे रोमपद्धतिद्वितयीम् । 'उच्चै राज्यादिदानात्कलिकलुषमलक्षालनात्तामसानामुच्छिन्दाद्विघ्नमेदात्त्रिदशपतिकरस्पर्शनादर्शनस्य । हेतुत्वात्सस्यसूर्याद्यदयफलपदस्वर्जनशानभूत्वाद्धस्ते नामेयदेवप्रभुपदयुगली......गौरिवेह ॥ इति श्रीसोमसुन्दरसू. रिकृतस्तोत्रे युगलीशब्दः । दधान बिभ्राणम् । पुनः किंभूतम् । ज्योत्स्ना चन्द्रिका ज्योत्स्नाप्रियत्वात् तथा सुधाममृतं पिबत इत्येवंशीलौ । 'कणेहत्य चकोरीणां, गणः पीत्वा सुधासवम् । अजायत मदेनेव 'गुञ्जापुजारुणेक्षणः ॥' इति वस्तुपालकीतिकौमुद्यां चन्द्रोदयवर्णने यथा चकोराणां ज्योत्स्नापान तथा सुधापानमपि दृश्यते इति । चकोरौ