________________
३२
हीरसौभाग्यम् सर्ग १ श्लो.५५-५६-५७
શ્લેકાર્થ જે ગુર્જરદેશમાં કોઈ સ્થાને, પર્વતે આકાશગંગામાં પ્રવેશ કરીને ઈન્દ્રના માર્ગમાં ઉભા છે. (અર્થાત આકાશ ઈન્દ્રનો માર્ગ છે, તે માર્ગમાં જઈને આ ગુર્જરદેશના પર્વત ઉભા છે.) અનંત એવા આકાશનું પ્રમાણ આટલુંજ છે આમ જાણે કૌતુકથી આકાશનું માપ કરવાને માટે ઉદામ કરતા હોય તેમ જણાય છે. પપા
सवाहिनीकाः स्मितनूत(त्न)चूतच्छत्रा झरम्निझररोमगुच्छाः ।
अनिहनुवाना धरणीधरत्वमिवात्मनां यत्र बभुगिरीन्द्राः ॥५६॥
यत्र देशे कुत्रापि प्रदेशे गिरीन्द्रास्तुङ्गशैला बभुर्वभासिरे इवेत्युत्प्रेक्ष्यते । आत्मनां स्वेषां धरणीधरत्वं भूभृद्भाव गिरित्व राजतां चेत्यर्थः। अनिलवानाः प्रकटीकुर्वाणा इव। 'स्फुट च लब्ध्वामरयुग्मचिह्नरनिह्ववान निजवाजिराजताम् ' इति नैषधे । किंभूता गिरीन्द्राः । सह वाहिनीभिनंदीभिः सेनाभिश्च वर्तन्ते ये । अत्र समासान्तः कः । पुनः किंभूताः । स्मिता विकसिता मञ्जरीपिञ्जरीकृतास्तथा नूता(ना)नवीना ये चूताः सहकारास्त एव छत्राणि आतपत्राणि येषाम् । पुनः किंभूता । झरन्तो वहन्तो ये निर्झरास्त एव रोमगुच्छाश्चामराणि येषाम् । राजानोऽपि छत्रचामरसेनासंयुताः स्युः ॥
रोज જે ગુજરાતના કેઈ કાછ પ્રદેશમાં ઉંચા પર્વતે જાણે પોતાની જાતને જગતમાં રાજારૂપે પ્રગટ કરતા હોય તેમ શોભે છે. રાજા જેમ છત્ર, ચામર અને સેનાથી યુક્ત હોય છે તેમ આ પર્વત પણ નદીઓ રૂ૫ એનાથી, વિકસ્વર નવીન આમ્રરૂ૫ છત્રોથી અને વહેતાં ઝરણાંઓરૂપી ચામરોથી યુકત શોભી રહ્યા છે. પદા
विद्युन्मणीभूषणभूष्यमाणा, मिलद्वलाकाघनपुष्पनद्धा ।।
कादम्बिनी बद्धशिखानुपङ्गा, यद्गोत्रलक्ष्म्याः कबरीव रेजे ॥५७।।
यत्र देशे शैलोपरि कादम्बिनी मेघमाला रेजे । प्रायो मेघा गिरौ भवन्त्येवेति 'गिरो वर्षन्ति वारिदः' इति सूक्तेऽपि । भाति स्म । उत्प्रेक्ष्यते यद्गोत्राणां गुर्जरभूधराणां लक्ष्म्याः श्रियः कवरी वेणीव । कि भूता कादम्बिनी कबरी च । बद्धो रचितः शिखायामधित्यकायां शृङ्गाने मस्तकोपरि वा अनुषङ्गः प्रसङ्गो यया सा । पुनः किंभूता । विद्युदेव विद्योतमानानि वा । 'विद्युन्मणिमेखलालंकारधारिण्यः' इति चम्पूकथायाम् । विद्योतमानरत्नकाञ्ची' इति तट्टिप्पनके । मणीनां भूषणान्यभरणानि तैर्भूप्यमाणा अलंक्रियमाणा । पुनः किं भूता । मिलन्तीभिः सङ्ग कुर्वन्तीभिर्वलाकाभिर्वककान्ताभिः । तथा घनपुष्पैर्ज लैर्नद्धा युक्ता । 'क्षीर पुष्करमेघपुष्पकमलान्यापः पयःपाथसी' इति हैम्याम् ।