________________
सर्ग १ श्लो० ५४-५५ ]
सौभाग्यम्
३१
(જેના કંઠ મુક્તાહારથી સુશોભિત છે, જેના પગમાં ઝાંઝરનેા ઝણકાર છે, જેનું મુખકમલ નેત્ર ઉપરની શ્યામ ભ્રમર વડે શાી રહ્યું છે. ઉંચા અને પુષ્ટ સ્તનને ધારણ કરનારી અને અલ્પ એવી રામરાજીથી સુશાલિત એવી સુંદર સ્ત્રીની જેમ સાબરમતી શે।ભી રહી છે.) પાપરાપા
यत्रोन्नमद्वारिदवर्मिताङ्गा-स्तडिल्लतोपात्तनिशातशस्त्राः ।
आखण्डलेन द्विषतेव रोषाद्, योद्धुं व्यवस्यन्ति विलासशैलाः ||५४ ||
यत्र देशे कुत्राप्येकस्मिन्पार्श्वे इलादुर्गपुरसवेशप्रदेशे विलासशैलाः क्रीडापर्वता रोषात् स्ववंश्यलक्षपक्षच्छेदोद्भूतात्कोपाद् द्विषता वैरिणा आखण्डलेन शक्रेण साक' योद्धुं संग्राम कर्तु व्यवस्यन्ति प्रगल्भन्ते प्रयतन्ते इव । किंभूताः शैलाः । उन्नमन्त उत्प्रव ल्येन जलभरेण नम्रीभवन्तो वारिदा मेघास्तैर्वमित वर्म संनाहः स संजातोऽस्मिन्निति वर्मित संनाहानां तु जात्यलोहत्वेन श्यामत्वात् । धनोऽपि श्यामस्तत एकवर्णत्वेन तदुपमानमिति । पुनः किंभूताः । तडिल्लता विद्युद्वितानान्येव उपात्तानि गृहीतानि शाणोत्तेजितानि शस्त्राणि प्रहरणानिः यै । विद्युता निकष निर्मलीकृतानां सांयुगीनानां शस्त्राणां झगब्भिति दीप्तित्वात्तुल्यता । तथा -करवालं उलालइ करीषी झवझव झवूकर जिसी वीज' इति पूर्वाचार्यकृतजीरापल्लीपार्श्वनाथप्राकृतस्तोत्रे संग्रामाधिकारे ॥
શ્લાકા
વળી જે ગુરદેશમાં ઈલાદુ (ઇડર) પાસેના પ્રદેશમાં ઉન્નત એવા મેરૂપ કવચથી યુકત શરીરવાળા અને વિજળીરૂપ તીક્ષ્ણ શસ્ત્રને ધારણ કરનારા ક્રીડાપા (પેાતાના વંશના પતાની પાંખા ઇન્દ્રે છેદી નાંખી હેાવાથી) રાષથી શત્રુની જેમ ઈન્દ્રની સાથે યુદ્ધ કરવા માટે જાણે પ્રયત્ન કરતા ન હેાય ? (તેમ ક્રીડા પર્વતા શે।ભી રહ્યા છે.) ૫૫૪ાા
इयत्तत्यानन्तमपि प्रमातु, प्रगल्भमाना इव कौतुकेन ।
शैलाः कृतव्योमवहावगाहा, जगाहिरे निर्जरराजमार्गम् ||५५॥
कापि यत्र देशे शैलाः पर्वता निर्जराणां राजा निर्जरराजः शक्रस्तस्य मार्ग पन्थानमेतावता गगन ं यथा सुराणां मार्गस्तथा सुरेन्द्रस्यापि मार्गः । 'येनामुना बहुविगाढसुरेश्वराध्व -' इत्यादि नैषधे । जगाहिरे अवगाहन्ते स्म । व्याप्नुवन्ति स्मेत्यर्थः । किंभूताः शैलाः । कृतो निर्मितोऽत्युन्नततया व्योमवहायामाकाशगङ्गायामवगाहो जले प्रवेशो यैस्ते इवेत्युत्प्रेक्ष्यते । कौतुकेन कुतूहलेन । अनन्तमपि पाररहितमपि निर्जरनभ इयत्तया पतावत्प्रमाणत्वेन प्रमातु प्रमाणविषयीकर्तुं प्रगल्भमाना उद्यमं कुर्वाणा इव । कौतुकिनो हि निर्विचारमत्यौत्सुक्याद्यत्र तत्राप्युत्सहते ||