SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ हीरसौभाग्यम् [सर्ग १ श्लो० ५१-५२-५३ रोमावली शैवलवल्लरीभि-रिवादधानापि च यत्र देशे । स्वकेलिलोलान्वरवर्णिनीव, युवबजान्साभ्रमती तनोति ॥५३॥ त्रिभिर्विशेपकम् ।। अपि च पुनः-यत्र देशे साभ्रमती नाम नदी वरवर्णिनीव प्रधानस्त्रीव युवव्रजांस्तरुणगणान् स्वस्यात्मनि विषये केलिषु जलक्रीडासु कामकेलिविलासेषु वा लोलांश्चपलानत्युत्सुकांस्तनोति । करोतीत्यर्थः । किंभूता साभ्रमती । निजस्यात्मनः स्वकीयस्य वोपकण्ठे समीपे तटपावें । 'कांठा' इति लोकप्रसिद्धया । श्रेणीभवतां पक्तया वितिष्ठमानानां लक्ष्मणपक्षिणां सारसविहंगमानाम् । 'सारसस्तु लक्ष्मणः स्यात् ' इति हैम्याम्। लक्षैः मुक्तालताङ्केव मुक्ताफलहारोऽके । 'पूर्वभागे उपस्थोऽङ्कः' इति हैम्याम् । कटेरूचं पूर्वकायः । कण्ठादिपु यस्याः । अथवा अङ्को भूषा यस्यास्तादृशीव । 'अङ्को भूपारूपकलक्ष्मसु' इत्यनेकार्थः । पुनः किंभूता। कूले तटेऽनुकूल कर्णयोरमृतायमान कूजन्तीभिः शब्दायमानाभिः कलहंसिकाभिः कृत्वा शिञ्जानमञ्जीरवतीवरणभ(झ)णिति निक्कणायमाननूपुरमण्डितेव । पुनः किंभूता । सह नेत्रेण नयनेन वर्तते यत्तत्सनेत्रं यद्वक्त्रं तस्य श्रिय लक्ष्मीमाश्रयन्तीवेत्युत्प्रेक्ष्यते । केन । शिलीमुख भ्रमरमाश्लिषत्यालिङ्गतीत्येवंशील यत्सरोरुट्र पद्म तेन । 'तजलात्सरसः पङ्कात् परै रुट्रहजन्मजैः' इति हैम्याम् । पुनरुस्प्रेक्ष्यते-उद्वहन्तीव दधतीव । किम् । तुझ्गमुच्च पीन पुष्ट यत्स्तनद्वन्द्व कुचयुग्म तत्। केन । रथाङ्गनाम्नोश्चक्रवाकयोद्वितयेन युगलेन । पुनरुत्प्रेक्ष्यते-आदधाना आ ईषत्कलयन्तीव । काम् । रोमावली लोमलेखाम् । काभिः। शैवलवल्लरीभिः शेवालमञ्जरीभिः । 'चञ्चुच्युता शैवलमञ्जरीव' इति कुमारसंभवे । स्त्रीणां प्रायो लोमलेखा स्वल्पैव प्रशस्यते। 'बहुलोमा दरिद्रा स्यात् ' इति कुमारसंभवे । स्त्रीणामुरे रोमराजी वर्ण्यमाना दृश्यते । तथा- घणपब्वयरोमरायवणगहण' इति । तथा-'वयसी शिशुता तदुत्तरे, सुदृशी स्वाभिविधि विधित्सुनी । विधिनापि न लोमलेखया, कृतसीम्नी प्रविभज्य रज्यतः ॥' इति नैपधेऽपि । तथा-'वरवणिन्यप्युक्तविशेषणविशिष्टैव स्यात् ' इति ।। इति साभ्रमती ॥ બ્લેકાર્થ ગુર્જરદેશમાં સાબરમતી નદી શ્રેષ્ઠ અને સુંદર સ્ત્રીની જેમ જલદી કરવામાં સ્ત્રીપક્ષે કામક્રીડા કરવામાં) ઉત્સુક એવા યુવાન પુરુષોને જાણે આમંત્રણ કરતી હોય તેમ શોભી રહી છે. પિતાના કિનારે પંક્તિરૂપે રહેલા લાખો સારસ પક્ષીઓ વડે જાણે મોતીના હારથી સુશોભિત ન હોય? તટને અનકલ અને કર્ણપ્રિય એવા શબ્દોને કરતી કલહંસિકાઓ વડે જાણે ઝાંઝરનો ઝણકારવાળી ન હોય? તેમજ ભ્રમરથી આલિંગિત એવા કમલ વડે જાણે નેત્રસહિત મુખની શોભાને ધારણ કરતી ન હોય ? અને ચક્રવારનાં યુગલવડે જાણે ઉંચા અને પુષ્ટ એવા બે સ્તન ધારણ કરતી ન હોય ?
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy