________________
२९
सर्ग १ श्लो० ४९-५०-५१-५२] हीरसौभाग्यम्
___ या सरस्वती नदी यूनस्तरुणान् । तरङ्गाः स्वकल्लोला एव हस्तास्तेषु स्थितैः पङ्कजैः कमलैः कृत्वा । किम् । उत्प्रेक्ष्यते-अर्घ पूजाविधिम् । 'अर्घः पूजाविधौ मूल्ये द्रव्ये' इत्यनेकार्थः । विश्राणयामास । 'दत्ते ददाति विश्राणयति प्रयच्छति च' इति क्रियाकलापे । प्रदत्ते स्म । या किं कुर्वती । उच्चरन्ती कथयन्ती। पृच्छन्तीत्यर्थः । उत्प्रेक्ष्यतेउच्चरन्तीव । गर्भितोत्प्रेक्षा । किम् । स्वागत सुखेनागतं कुशलप्रश्न वा । कैः । हंसस्वनैर्मगलरावैः । कान्प्रति । यूनस्तरुणान् । किंभूतान् । रिरंसया जलक्रीडां कर्तुमिच्छया उपगतान् स्वस्मिन् विपये समागतान् । पुनः किंभूतान् । सकान्तान् सह कान्ताभिर्वर्तन्ते ये प्रियायुक्तान् । पुनः किंभूतान् । अान् पूजायोग्यान् ॥
પ્રિયાઓ સહિત જલક્રીડા કરવાની ઇચ્છાથી આવેલા પૂજાગ્ય યુવાનનું તરંગરૂપી હાથમાં રહેલાં કમલ વડે અને સ્વાગતમ્” એવા મંગલ સ્વરે સ્વાગત કરતી સરસ્વતી જાણે પૂજાવિધિને અર્પણ કરતી હોય તેમ શોભે છે. ૪૯
विधोधियामन्दमरन्दलीन-शिलीमुखोन्मीलितपुण्डरीकम् । वीक्ष्याभितो यत्र चकोरिकाभि-रभ्रामि पीयूषरसाभिकाभिः ॥५०॥
यत्र सरस्वत्यां सरिति अमन्दमरन्दार्थ प्रचुरमकरन्दपानकृते लीना अन्तनिलीय स्थिताः शिलीमुखा भ्रमराः यत्र एवंविधम् । तथा-उन्मीलित विकसित पुण्डरीक सिताम्भोज वीक्ष्य विलोक्य पीयूषस्यामृतस्य रसो निःस्यन्दस्तस्याभिकाभिः कामयिश्रीभिः । 'कामुकः कमिता कम्रोऽनुकः कामयिताभिकः' इति हैम्याम् । चकोरिकाभिज्योत्स्नाप्रियजायाभिर्विधोर्धिया चन्द्रबुद्धया अभितः समन्तादभ्रामि भ्राम्यते स्म । चकोरिकानाममृतपानमने वक्ष्यते ॥ इति सरस्वती ॥
જે સરસ્વતી નદીમાં રસપાન કરવામાં અત્યંત લીન થયેલા ભમરાઓ છે જેમાં એવાં વિકસિત શ્વેત કમલેને જોઈને “આ ચંદ્ર છે એવી બુદ્ધિથી અમૃતરસની ઈચ્છાવાળી ચકેરીઓ એ કમલની ચારે બાજુ ઘુમતી હતી. (ચોરીને અમૃતપાન અભીષ્ટ છે, તે આગળ કહેવાશે.) ૫૦
मुक्तालताङ्केव निजोपकण्ठ-श्रेणीभवल्लक्ष्मणपक्षिलक्षैः । शिजानमञ्जीरवतीय कूलानुकूल-कूजत्कलहंसिकाभिः ॥५१॥ शिलीमुखाश्लेपिसरोरुहेव, सनेत्रवक्त्रश्रियमाश्रयन्ती । रथाङ्गनामद्वितयेन तुङ्ग-पीनस्तनद्वन्द्वमिवोद्वहन्ती ॥५२॥