SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ २८ हीरसौभाग्यम् [सर्ग १ श्लो० ४७-४८-४९ नवोदयं हीरकुमारचन्द्र, निरीक्षितुं कौतुकिनी समेता । स्वयं स्वयंभूतनया किमेपा, सरस्वती यत्र विभाति सिन्धुः ॥४७॥ यत्र देशे सरस्वतीनामा सिन्धुर्नदी विभाति शोभते । उत्प्रेक्ष्यते-नवो नूतनो भाविनि भूतोपचारादुदयो यस्य तं तथोक्तम् । हीरनामा कुमारेषु कुमाराणां वा मध्ये चन्द्र इव दीप्यमानत्वात् विविधनादहासवाग्विलासविश्राणनादिभिरालादकत्त्वाद्वा कुमारचन्द्रस्त निरीक्षितुं द्रष्टुं कौतुक विद्यते यस्याः सा कौतुकिनी कुतूहलाकलिता । एषा किं स्वयंभुवो धातुस्तनया पुत्री भारती स्वयमात्मना नदीरूपेणेत्यर्थः । 'ब्रह्मपुत्री सरस्वती नदी' इति हैमीवचनात् । समेता समागतेव । अन्यापि वशा कौतुकान्नवोदय चन्द्र प्रेक्षितु समेति ॥ શ્લોકાઈ જાણે ભવિષ્યમાં ઉદય પામનાર કુમારામાં ચંદ્ર સમાન હીર નામના કુમારને જોવા માટે કૌતુકવાળી એવી બ્રહ્માની પુત્રી સરસ્વતી જ જાણે સ્વયં નદીરૂપે આવી હોય તેમ આ ગુર્જર દેશમાં સરસ્વતી નામની નદી શેભી રહી છે. જવા कपोलपालीमृगनाभिपत्र-लताङ्कितैश्च द्विजचन्द्रिकाकैः । क्रीडन्मृगाक्षीवदनैर्वभौ या, सहस्रचन्द्रेव विरञ्चिपुत्री ॥४८|| या विरञ्चिपुत्री सरस्वती सरित् क्रीडन्त्यो जलविलास सृजन्त्यो या मृगाक्ष्यः सारङ्गनयनास्तरुण्यस्तासां वदनैर्मुखैः सहस्रचन्द्रेव दशशतमृगाकेव वभौ भाति स्म । किंभूतैर्वदनैः । कपोलपालीषु गण्डस्थलेषु । पालीशब्दो दीर्घोऽप्यस्ति । 'कपोलपाली जनितानुविम्वयोः' इति नैषधे । या मृगनाभेः कस्तूरिकायाः पप्रलताः पत्रवल्लयः ताभिरहितैः कलितैः । पुनः किंभूतैः। द्विजानां दन्तानां चन्द्रिका ज्योत्स्ना । कान्तिरित्यर्थः। ता अके क्रोडे येषां तैः । 'दशनचन्द्रिकया व्यवभासितम्' इति रघुवंशे ॥ તે સરસ્વતી નદી, જલક્રીડા કરતી એવી સ્ત્રીઓનાં મુખો વડે જાણે હજારચંદ્રવાળી નહેય? જેનો કપોલ ભાગ કસ્તરીની પત્રાવલિથી સુરક્ષિત છે અને જેને મધ્યભાગ દાંતની કાંતિથી દેદીપમાન છે એવાં વદન (મુખો વડે જાણે સહસ્ત્ર ચંદા બની ગઈ હોય તેવી ભાસે છે. જ૮ यूनो रिरंसोपगतान्सकान्तान् , हंसस्वनैः स्वागतमुच्चरन्ती । तरङ्गहस्तस्थितपङ्कजैर्या, विश्राणयामास किमर्थमान् ॥४९।।
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy