SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सर्ग १ श्लो० ४५-४६] सौभाग्यम् २७ जलधिः समुद्रो द्विवेल द्वे वेले वारौ यत्रेति क्रियाविशेषणम् । वारद्वय वेलाछलाद्वारिवृद्धिव्याजात् । उत्प्रेक्ष्यते - स्थम्भनपार्श्वदेव नन्तु नमस्कर्तुमिवाभ्युपैति अभिमुख समेति । किंभूतो जलधिः । उत्कण्ठितः कण्ठादूर्ध्वमुत्कण्ठ उत्कण्ठत्व ं संजातमस्येति भावप्रधानो निर्देशः । अन्योऽप्युत्कण्ठित औत्सुक्यकलितो जिन नन्तुमायाति । किं कर्तुम् । मार्टुमपनेतुम् । काम् । स्वस्यात्मनः क्षारतां लवणतां द्रोहन्तशक्रोद्धतां (?) च । पुनः सूनोश्चन्द्रमसः । विधोः (अब्धेः ) समुत्पन्नत्वात् । कलङ्की गुरुदाराधिगमनात्परस्त्रीलाम्पटापवादो ऽस्यास्तीति कलङ्की तस्य भावः कलङ्किता ताम् । 'कलङ्कोऽङ्कापवादयोः' इत्यने कार्थः । केन । क्रमादर्थाद्भगवत्पादावेवाम्भोजे कमले तयो रजो रेणुस्तदेवामृत पीयूष तेन । 'त्वपादपङ्कजरजोऽमृतदिग्धदेहा' इति भक्तामर स्तोत्रे ॥ इति श्रीस्थम्भनपार्श्वनाथः ॥ શ્લાકા અત્યંત ઉત્ક ંઠિત થએલા સમુદ્ર–પ્રભુના ચરણુકમલની જરૂપી અમૃતવડે પેાતાનું ખારાપણું અને પેાતાના પુત્ર ચંદ્રની પરીલ પટ તરીકેની કલતિતાને દૂર કરવા માટે વેલા (ભરતી)ના ાન જાણે બે વખત નમસ્કાર કરવા આવતા ન હેાય ? (પુરાણુ આદિમાં કહેવાયુ` છે કે ચંદ્રે બૃહસ્પતિની પત્ની તારા સાથે ગમન કર્યું હતું.) જા तीर्थानि तीर्थाधिपपावितानि, परस्सहस्राण्यपराण्यपीह | स्फूर्ति परां विभ्रति पूर्वदेशे, जिनेशकल्याणकशालिनीव ||४६ || अपि पुनः, इह देशे (लाडण?) पाटणचा रूपप्रमुखानि अन्यान्यपराणि परस्सहस्राणि सहस्रात्पराणि सहस्रशः अनेकसहस्रसंख्यानि तीर्थानि पुण्यस्थानानि परां प्रकृष्टां स्फूर्ति विभ्रति कलयन्ति । किं०। तीर्थाधिपैर्जिनेन्द्रैरर्थात् जिनप्रतिमाभिः पावितानि पावनीकृतानि । पवित्रितानीत्यर्थः । कस्मिन्निव । पूर्वदेश इव । यथा पूर्वदेशे सहस्रसंख्याकानि स्फुरन्ति । किंभूते पूर्वदेशे । जिनेशास्तीर्थंकरास्तेषां कल्याणकानि च्यवनजन्मदीक्षाज्ञानमोक्षगमनस्थानानि तैः शालते शोभते इत्येवंशीलस्तस्मिन् ॥ इति पुण्यस्थानानि ॥ શ્લેાકા જેમ પૂર્વદેશની ભૂમિ શ્રીતીર્થંકર ભગવાનના ચ્યવન, જન્મ દીક્ષા, જ્ઞાન અને મેક્ષ એ પાંચ કલ્યાણુકાવડે પવિત્રતાને ધારણ કરે છે તેમ આ ગુરદેશમાં શ્રીજિનેશ્વરભગવંતેાની ભવ્ય પ્રાંતમાઓવડે સુશાલિત એવાં બીજા પણ પાળુ, ચારૂપ આદિ હજારા તીસ્થાને અત્યંત સુંદરતાને ધાણુ કરતા શાભી રહ્યાં છે. ૪૬ા अथ क्रीडास्थानकानि - હવે ક્રીડાસ્થાનાનું વર્ણન કરતાં કહે છે—
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy