________________
हीरसौभाग्यम्
५३०
[ सर्ग ८ श्लो० ४८-५०
कस्य जात्यजाम्बूनदस्य पट्टिकेव हस्तलेखविधानपट्टिकेव । स्मरस्य किं कर्तुकामस्य । इन्द्रस्य पुरंदरस्य गुरोराचार्यस्य बृहस्पतेः । ' ईदृशीं गिरमुदीर्य बिडौजा जोषमास न विशिष्य बभाषे । नात्र चित्रममिधाकुशलत्वे शैशवावधिगुरुर्गुरुरस्य ॥' इति नैषधे । 'अभिधाकुशलत्वेन वचनचातुर्ये' इति तद्वृत्तिः । उपान्ते समीपे कलामातृकाद्यारम्भतो लिखित गणितादिमाः शकुनरुतपर्यन्ता द्वासप्ततिकला मानवप्रसिद्धाः । देवानां कलास्तु त एवं विदन्ति नास्माकं वाङ्मनोगोचरा अध्येतुकामस्य पठितुमनसः ॥
શ્લેાકા
પાર્વતીના પાણિગ્રહણ સમયે પ્રસન્ન બનેલા શંકર પાસે બ્રહ્મા વિષ્ણુ ઈંદ્ર આદિ સમસ્ત દેવાએ પ્રાર્થના કરવાથી પુનર્જન્મ પ્રાપ્ત કરનારા બાળક કામદેવે, સુરગુરુ બૃહસ્પતિની પાસે લિખિત ગણિતથી આરંભીને પશુ--પક્ષીના સ્વરના જ્ઞાન પંતની બહેાંતે કળા શીખવાની ઇચ્છાવાળા કામદેવની આ શાસનદેવીના બડારૂપ સુવર્ણની પાટી ( મ્લેટ ) જાણે ના હોય ! ॥ ૪૮૫
संक्रान्तवेणीग्रथितप्रसून - पक्तिर्वभौ पृष्ठतटे तदीये | संवेशनश्रान्तशयालुकाम-कृ -कृतेऽर्कतूली किमु निम्नमध्या ॥ ४९ ॥
तस्या देव्या इदं तदीयं तस्मिन्देवीसंबन्धिनि पृष्ठतटे 'वांसउ' इति लोकप्रसिद्ध नाम वपुःप्रान्तप्रदेशे संक्रान्ता प्रतिबिम्बिता वेण्यां कबर्या या ग्रथिता गुम्फिता वेणीग्रथनावसरे मध्ये संन्धा प्रसूनानां कुसुमानां पक्तिः श्रेणी बभौ विराजते स्म । उत्प्रेक्ष्यते - संवेशनेन रतिप्रीतिपत्नीभ्यां समं चिरसंभोगेन श्रान्तस्य श्रमं प्राप्तस्यात एव प्राया भोगिनां शय्यायां कुसुमान्यांस्तीर्यन्ते इति रीतिस्थिती । अर्कतूली शयालोर्निद्राशीलस्य कामस्य मदनस्य कृते कार्याय निम्न गम्भीर मध्यमन्तराल शय्यामध्यवर्ती प्रदेशो यस्यास्तादृशी अर्कतूली अर्कतूलपटलोपचिता प्रसूनराशयो वा प्रायेा भोगिनां शय्यायां कुसुमान्यास्तीर्यन्ते इति रीतिस्थिती । अर्कतूलीनामा काचित् शय्याविशेषो वा ॥ इति पृष्ठदेशः ॥
શ્લેાકા
શાસનદેવીના વાંસા (બરડા)માં પ્રતિબિંબરૂપે રહેલી વેણીમાં ગુંથેલા પુષ્પાની પંક્તિ શાભે છે, તે જાણે રતિ અને પ્રીતિ સાથે ચિર સભાગ કરવાથી શ્રમિત બનેલા કામદેવના શયન માટે મધ્યમાં કઈક નીચી એવી પુષ્પાની શય્યા ન હોય ! ! જા
आवर्तविभ्राजितरङ्गितान्त-ज्र्ज्योतिः पयः पूरितनाभिरस्याः ।
सम' 'वशाभ्यां स्मरसिन्धुरस्य, स्वैरं रिरंसोः स्फुरतीव शोणः ॥ ५० ॥
अस्याः शासननाकिनायिकाया आवर्तेन भ्रमरकाकृतिविशेषेण पयसां भ्रमेण वा । 'आवर्तः पयसां भ्रमः' इति हैमीवचनात् । विभ्राजते शोभते इत्येवंशील तथा
तरङ्गाः