________________
५२८
हीरसौभाग्यम् [सर्ग ८ श्लो० ४४-४६ शासन तस्य देवता अधिष्ठाविका देवी तस्या लक्ष्म्या शोमया कृत्वा अप्रतिमः न विद्यते प्रतिमा प्रतिरूपं सदृशं वस्तु यस्य स नितम्ब मारोहः कटीपृष्ठपदेशः । 'नितम्बारोही स्त्रीकटयाः पश्चाजघनमग्रतः इति हैम्याम् । चकास्ति शोभते । उत्प्रेक्ष्यतेमोधीमता निष्फला विहिता इपवो बाणा येन तादृशो यो मखजित् मखनामा कश्चिहामवविशेषस्तस्य जित् जेता एतावता ईश्वरः स एव द्विषन् प्रत्यर्थी । जेतुं स्मरेण धृत धारितमङ्गीकृत चक्रमायुधविशेष इव । नितम्बस्य चक्रोपमानम् । यथा-'रोमाव. लीदण्डनितम्बचक्रे' इति नैषधे । तथा-'पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनशिल्पशि. क्षया । विधिरेककचक्रधारिण किमु निर्मित्सति मान्मथ रथम् ॥' इत्यपि नैषधे ॥
કાથ
શેભાથી નિરુપમ શાસનદેવીને નિતંબ શોભે છે તે જાણે ઈશ્વરે જેના બાણ નિફલ બનાવ્યાં છે, તે કામદેવે, પોતાના શત્ર ઈશ્વરને જીતવા માટે ચક્ર ધારણ કર્યું ન હોય ! ! ૪૪
यदङ्गरगन्नवराजधानी-निवासिनः श्रीसुतभूविवोदुः ।
स्फुटीभवत्पुष्परथस्य शङ्के, रथाङ्गमेतत्रिदशीनितम्बः ॥ ४५ ॥ त्रिदश्याः शासनदेव्या नितम्बो विभातीति संबन्धः । उत्प्रेक्ष्यते--यस्या देवताया अङ्ग शरीर तदेव रङ्गन्ती जङ्गमा नवा राजधानी स्कन्धावारो मूर्धाभिषिक्तनिवासनगरी तत्र निवसतीत्येवंशीलो यः श्रीसुतो लक्ष्मीनन्दनो मदनः स एव भूविवोढा धरणी. रमणस्तस्य पुष्परथस्य क्रीडाकरणोचितशताङ्गस्य । 'सक्रीडार्थः पुष्परथः' इति हैम्याम्। स्फुटीभवत्प्रकट जायमानमेतत्प्रत्यक्ष रथाङ्ग देवीनितम्बतनुचक्रमिव शङ्के इवार्थे । अथ वा अहमेव शके वितर्क कुर्वे । स कः। एतत्रिदशीनितम्बः एतस्या देव्या आरोहः॥ इति नितम्बः ॥
શ્લોકાર્ધ શાસનદેવીને નિતંબ, દેવીના શરીર૫ નવી જંગમ રાજધાનીમાં જેને નિવાસ છે તે કામ દેવરૂપી રાજાના પુષ્પરથનું આ નિતંબ જાણે પ્રત્યક્ષ ચક્ર (પ) ન હોય ! ! ૪પા
एतत्कलत्रस्य हरेः कलत्र-जैत्रस्य सौभाग्यमुदीर्यते किम् ।
गाङ्गेयमप्यातनुते स्म काञ्ची-निभान्निजालिङ्गनलालस यत् ।। ४६ ।। हरेः केसरिणः कलत्रं कटीक[त]टः। कटिःश्रोणिः कलत्रं कुटीर काञ्चीपद ककुद्मती' इति हैम्याम् । तस्य जैत्रस्य जयनशीलस्य तथा हरेः विष्णोः कलत्रस्य पल्या लक्ष्म्याः । जैत्रस्येत्यप्यर्थध्वनिः । एतस्य देव्याः कलत्रस्य कटयाः । एतस्य कस्यापि कलत्रस्य पत्न्या इत्यप्यर्थध्वनिः । 'कलत्रं श्रोणौ भार्यायां दुर्गस्थाने च भूभुजाम्' इत्यनेकार्थः ।