________________
सर्ग ८ श्लो० २७-२८] हीरसौभाग्यम्
प्रसादकान्ती दधती सुवर्णा-लंकारिणी रम्यतमक्रमा च ।
संश्लेषदक्षाप्रतिमोपमान-श्रीः श्लोकमालेव सुरी चकासे ॥२७ ॥ सुरी (शासन)त्रिदशी श्लोकमालेव अनुष्टुभां पतिरिव चकासे दीप्यते स्म । किंभूता सुरी श्लोकमाला च सप्रसादं प्रसन्नभाव कान्ति शोभां वपुर्दीप्ति वा तथा झगित्यर्थावबोधगोचरत्वं प्रसादगुणः । तथा दीप्तरसत्वं कान्तिस्ते दधती दधाना । पुनःकिंभूता। सुवर्णैः काञ्चनैर्विरचिता अलंकारा अङ्गप्रत्याभरणानि विद्यन्तेसन्तिवास्याः। तथा शोभना वर्णा अक्षराणि । तथा उपमोत्प्रेक्षारूपकाद्या अलंकारास्ते सन्ति अस्यामिति । अस्त्यर्थीय इन् । पुनः किंभूता । रम्यतमौ अतिशयेन मनोशौ सामुद्रोतलक्षणलक्षितावत पवातिरुचिरौ क्रमौ चरणौ यस्याः अतिरमणीयचतुश्चरणा अनु. क्रमो वा यस्याः। पुनः किंभूता संश्लेषे स्वकामुकेन वल्लमेन सम सस्नेहसरोमाञ्चाञ्चित लतावेष्टितकाद्यालिङ्गनविशेषे निपुणा चातुयवती। तथा। शब्दगुणार्थशब्दालंकारार्थालंकारादिरूपः सम्यक् समीचीनश्चेतश्चमत्कारकारी श्लेषस्तत्र दक्षा पट्वी। पुनः किंभूता । अप्रतिमोपमानश्रीः न विद्यते प्रतिमा सादृश्य यस्याः । 'न तन्मुखस्य प्रतिमा चराचरे' इति नैषधे । तादृशी उपमानश्रीः शोभा लक्ष्मीर्वा यस्याः । तथा अप्रतिमा असाधारणा उपमानरुपलक्षणादुत्प्रेक्षायैः श्रीलक्ष्मीः शोभा यस्याः ॥ इति पादाः ॥
બ્લેકાર્થ શાસનદેવી “અનુષ્ય શ્લોકની પંકિતની જેમ શોભે છે. દેવી આનંદદાયક શરીરની કાંતિવાળી છે, બ્લેકપંકિત શીઘ્રતાથી બંધ થઈ શકે તેવા પ્રસાદગુણવાળી છે, અને દેવી-સુવર્ણદિના અલંકારોથી વિભૂષિત શરીરવાળી છે. શ્લોકપંકિત સુંદર વર્ણો (અક્ષરો) અને ઉપમાન– ઉપ્રેક્ષાદિ અલંકારોવાળી છે. દેવી અતિ રમણીય લક્ષણોપેત સુંદર ચરણોવાળી છે. શ્લોકપંકિત અતિ રમણીય ચાર ચરણવાળી છે. દેવી પોતાના સ્વામી સાથે સ્નેહપૂર્વક આલિંગન આપવામાં ચતુર છે. શ્લોકપંકિત શબ્દગુણ, અર્થગુણ, શબ્દાલંકાર અર્થાલંકાર, આદિપ વિદ્વદપુરુષના ચિત્તને ચમત્કાર કરવાવાળી શ્લેષમાં દક્ષ છે. દેવી અસાધારણ શરીરની શોભાવાળી છે. શ્લોપંકિત અસાધારણ ઉપમાન-ઉપેક્ષા-આદિની શોભાવાળી છે. આવી અનુષ્ણુભ પ્લેકપંકિતની જેમ શાસનદેવી शाने छे. ॥ २७ ॥
यत्पादराजौ परिशुद्धपाणी, निर्जित्य गत्याखिलराजहंसान् ।
उच्चै रुचिस्फूति मिषाज्जिगीषू, प्रस्थातुकामाविव नाकिनागम् ॥ २८ ॥ यस्या देवतायाः पादौ चरणावेव राजी राजानौ पार्थिवौ अपरावपि बलवद्भः पती नाकिनां नागौं गीर्वाणानां वारणमैरावण निर्जरश्रेष्ठ शक्र वा । यदुक्त है. म्याम्-'स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्यास्तल्लजश्च मतल्लिकाः । मचर्चिकाप्रकाण्डोद्धयः प्रशस्यार्थप्रकाशकाः ॥' इति । जिगीषू जेतुमिच्छन्तौ सन्तौ ।