________________
५२०
हीरसौभाग्यम् [ सर्गः ८ श्लो० २८-२९ रुचीनां निःसरद्वहलबबलकान्तीमां स्फूर्तेः स्फुरणस्य मिषात्कपटात् । उत्प्रेक्ष्यतेउच्चैरूवं स्वर्गलोक प्रति प्रस्थातुकामौ गन्तुमीहमानाविव प्रचलितुमनसाविव । पेरावणवासवयोः स्वर्गस्थायुकत्वेन उच्चैर्गमनम् । राज्ञामपि इन्द्रनिर्जयन दृश्यते । यथा रघुबंशे इन्दुमतीवयंवरे कार्तवीर्यवर्णनाधिकारे–'कारागृहे निजितवासवेन लकेश्वरेणोषितमा प्रसादात्' । तथा सूक्ते-'दृषद्भिः सागरो बद्धः इन्द्रजिन्मानवैर्जितः। वानरै. ष्टिता लङ्का जीवद्भिः किं न दृश्यते ॥' इति । किं कृत्वा । गत्या गमने विलासेन प्रयाणेनाभिलाषेण तेन वाखिलान् समस्तान् राजहंसान् सितच्छदान् पार्थिवपुङ्गवांश्च । प्रबलपृथिवीपुरंदरानित्यर्थः । निर्जित्य पराभूय खवशीकृत्य च । किंभूतौ पादराजौ । परि सामस्त्येन सर्वप्रकारेण समन्तात्समग्रतया वा शुद्धो लाञ्छनाभावेन निर्मलः पाणिः घुट्योरधः प्रदेशो ययोः । तथा परि समन्तात् समग्रस्वप्रदेशापेक्षया निर्दोषो विरोधादिरहितः पाणिः पाश्चात्यो विजयिनो राज्ञः स्वदेशपृष्ठवर्ती राजा ययोस्तो। 'शुद्ध गाणिरयान्वितः' इति रघुवंशे । यो विजयी नृपोऽपरदेशसाधनार्थ प्रतिष्ठते सोऽवश्य स्वदेशपाश्चात्य पार्थिव पुरग्रामांश्च हस्त्यादिप्रदानेन मैत्रीविधानेन च शुद्ध स्वानुकूलीकरोतीति स्थितिः । नो चेदशुद्धः स तद्देशे विड्वर कुरुते तस्मानिर्दोषीकरण तदभिधान च पाणिरित्युच्यते ॥ इति पाणिः ॥
શ્લેકાર્થ
જેમ સર્વે રાજાઓને જીતી લેનાર વિજયી રાજા અન્ય દેશને સાધવા માટે પ્રયાણ કરે તે પૂર્વે અવશ્ય પોતાના દેશની પાછળ રહેલા રાજાઓ, નગર અને ગામોને હાથી–દ્રવ્ય આદિના દાનપૂર્વક મિત્રરૂપે બનાવી પોતાને અનુકૂળ કરે છે. તેમ શાસનદેવીના નિર્મલ પગની પાનીઓવાળા બે પગરૂપી રાજાઓ, પ્રસરતી કાંતિને બહાને પોતાની સર્વ રાજહંસને જીતી લેનાર ગતિવડે સ્વર્ગલના રાવણ હાથીને જીતવા માટે પ્રયાણ કરવાની ઇચ્છાવાળા થયા ન હોય ! ! ૨૮ છે
जम्भद्विषत्कुम्भिपराभविन्या, ययाभिभूति गमितः स्वगत्या । कि हंसकस्तां चरणारविन्दे, तस्थौ प्रसत्तेविषयीचिकीर्षुः ॥ २९ ।।
हंस एव हंसकः स्वार्थे कः। राजहंसः नूपुरम् । 'पिण्याकझर्झरहंसकशङ्खपुखाः' इति लिङ्गानुशासने पुनपुंसकलिङ्गः । चरणारविन्दे अर्थीदेवीपादपद्म तस्थौ स्थितवान् । उत्प्रेक्ष्यते-तां शासनदेवतां प्रसत्तेः प्रसादस्य विषयीचिकीर्षुः किं गोचरीकर्तुमिच्छुरिव । हंसकः कथंभूतः सन् । यया त्रिदश्या स्वगत्या निजगमनातिविलासेन अभिभूतिं पराभव गमितः प्रापितः सन् । किंभूतया गत्या । जम्भानामा दैत्यस्तस्य द्विषन् वैरी हन्ता वासवस्तस्य कुम्भी हस्ती ऐरावणस्त पराभवति निर्जयति इत्येवंशीला तया ॥