________________
सर्ग ८ श्लो० ११-१२] हीरसौभाग्यम्
५११ सृष्टिं सिसृक्षोः सुदृशां पुरा यः, स्वयंभुवः शिल्पगुरुर्बभूव ।
विधाय तां बिम्बमिवादसीय-शिक्षाकृते सोऽर्पयति स्म तस्मै ॥११॥ स शिल्पगुरुः अमूषां सुलोचनानामियमदसीया । 'नासादसीया तिलपुष्पतूणम्' इति नैषधे । सृष्टिः सर्गः । स्त्रीरूपघटनमित्यर्थः । सृष्टिरिति मध्यमपदलोपी समासः । तस्या सृष्टेः शिक्षण न पुनर्निर्माणक्रिया तत्कृते तदर्थ बिम्ब मूलरूप निरूप्य अन्यानि तद्रूपाणि निर्माप्यन्ते । एतावता शासनदेवतारूपबिम्बे बिधाय तस्मै धात्रे अर्पयति स्म दत्तवान् । यत्तदोनित्याभिसंबन्धात् । स कः । सुदृशां चारुचक्षुषां स्त्रीणां हि कटाक्षादिहेतुतया दृष्टिरेव प्रधाना तस्यां च शोभनत्वेन सर्वाङ्गीणशोभनत्यं सुतरामागतमिवेति । तथोक्तम्--'सर्वेन्द्रियाणां नयन प्रधानम्' इति । तथा-'तदनु पुनरपागोत्सङ्गसंचारितानां जयति तरुणयोषिल्लोचनानां विलासः' इति चम्पूकथाद्वितीयश्लोकान्त्यद्विपदी । इति सृष्टिरचनां सिसृक्षोः कर्तुमिच्छोः स्वयंभुवो ब्रह्मणः पुरा पूर्व विज्ञानज्ञानाभ्यासनसमये शैशवे यः कश्चिदज्ञाताश्रुतनामा शिल्पगुरुर्विज्ञानाचार्यः कलाचार्यों वा बभूवासीत् । प्रायो हि कलाकौशल्यगृहगुरुमन्तरेण जगच्चेतश्चमत्कारि शिल्पं न संगच्छते ॥
કલાકા સુંદર નેત્રવાળી સ્ત્રીઓ બનાવવાની ઇચ્છાવાળા કોઈ કલાચાર્યું પ્રથમ શિક્ષણ પ્રાપ્ત કરવા માટે આ શાસનદેવીના રૂપને જોઈ, તેનું બિંબ બનાવીને સૃષ્ટિનું સર્જન કરવાની ઈચ્છાવાળા ब्रह्माने लणे अपए यु न होय ! ॥११॥
महीवियद्वीक्षणकेलिलोली-भवन्मनाः स्वैरविहारिणीयम् ।
जम्बूहदिन्या अधिदेवतेव, समीयुषी काञ्चनचारिमश्रीः ॥१२॥ इय शासनसुरीरूपा । उत्प्रेक्ष्यते-जम्बूद्रदिन्या जम्बूनामनद्याः । जम्बूद्वीपसत्कजम्बूवृक्षाः । तेषां जम्बूफलरर्सजम्वूसरित्प्रवहति । तन्मृत्स्ना च जाम्बूनदं भवति । जम्बूनद्यां भवौं जाम्बूनदमिति व्युत्पत्त्या इति कविसमयः । तदेव दर्श्यते-'जाम्बूनद जगति विश्रुतिमेति मृत्स्ना कृत्स्नापि सा तव रुचा . विजितश्रि यस्याः। तजाम्बवद्रवभवास्य सुधाविधाम्बुजम्बूसरिद्वहति सीमनि कम्बुकण्ठि ! ॥' इति नैषधे । अधिदेवता अधिष्ठायिका देवी समीयुषीव समागतवतीव । किंभूता । मह्या भूमेवियत आकाशस्य च द्वयोभूनभसोर्वीक्षणमवलोकन तदेव केलिः क्रीडा तत्र लोलीभवचञ्चल जायमान मनश्चेतो यस्याः । अत एव पुनः किंभूता । स्वैर स्वेच्छया विहरति संघरतीत्येवंशीला । देवा देव्यो हि स्वैरविहारा भवेयुः । अतोऽपि स्वेच्छया संचारिणी । पुनः किंभूता । काञ्चनत्वेन काञ्चनवद्वा चारिम्णो श्रीः शोभा यस्याः सा ॥
કલેકાર્થ સુવર્ણ સમાન મનહર શરીરની કાંતિવાળી શાસનદેવી, જાણે આકાશ-પૃથ્વીને જોવાના