________________
५१०
हीरसौभाग्यम् [सर्ग ८ श्लो० ९-१० कलामिवेन्दोर्जगते द्वितीयां, प्राप्तां सुरी दर्शयितुं स्वमस्मै ।
निद्रां दृशा किंचन चुम्बतापि, प्रेक्ष्यामुनाजायत जाग्रतेव ॥ ९ ॥ अमुना सूरीन्द्रेण जाग्रतेव जागरणावस्थितेनेव निन्द्रारहितेनेव अजायत संजातम् । अमुना किं कुर्वता । किंचन किमपि उदरिकामन्त्रं दृशा नेत्रेण निद्रां प्रमीलां चुम्बता आश्रयतापि । किं कृत्वा । प्रेक्ष्य व्यालोक्य । काम् । सूरीं शासनदेवताम् । किंलक्षणाम् । अस्मै सूरीन्द्राय स्वमात्मान दर्शयितुं दृग्गोचरीकारयितुं प्राप्तां पुरः समागताम् । कामिव । द्वितीयां तिथिमिव । यथा इन्दोः सुधादीधितेः कलां षोडशांशम् । अत्रार्थाज्जगस्थितिवशाञ्च कलात्रयमयीं खेला जगते सकललोकाय दर्शयितुं प्राप्तां जनो जानाति ॥
કલેકાથ જગત માટે બીજના ચંદ્રની જેમ, આચાર્યને સ્વરૂપ દેખાડવા માટે મુરિજી સમક્ષ પ્રત્યક્ષ થયેલી શાસનદેવીને જોઈને કંઈક નિદ્રાધીન વેચન હોવા છતાં પણ આચાર્ય જાગૃતિવાળા पनी गया. ॥८॥
प्रवाललक्ष्मीरिव कामितद्रो-स्तद्धयानसिद्धेः किमुताग्रदूती । प्रत्यक्षवत् प्रादुरभूत्पुरोऽस्य, स्वप्नेऽपि सा सार्वमताधिदेवी ॥ १०॥
सा हीरविजयसूरिसूरिमन्त्रध्यानानुभावाभ्यागता सार्वस्य श्रीमञ्चरमतीर्थकृन्महावीरभगवतो मत शासन तस्याधिदेवी अधिष्ठायिका निर्जरी । श्रीवीरशासनदेवता इत्यर्थः । स्वप्ने किंचिन्निद्रावस्थायामपि प्रत्यक्षवज्जानदवस्थास्थायुकचक्षुर्लक्ष्यवत् । अस्य सूरेः पु. रोऽग्रतः प्रादुरभूत्प्रकटीभवति स्म । उत्प्रेक्ष्यते-कामितद्रोरर्थात् हीरसूरेरभिलषितशाखिनः प्रवाललक्ष्मीः पल्लवश्रीरिव । द्रुमाणां हि प्रथम पल्लवाः प्रादुर्भवन्ति । ततः तदुपमानम् । उताथ वा तस्य सूरेानस्य सूरिमन्त्रजापस्य सिद्धेः फलनिष्पत्तेः । अथ च सिद्धिनाम्न्या देवताया विघ्नराजपाचे सिद्धिबुद्धिनाम्न्यौ देवते अनुचयौं वर्तेते इति लोकप्रसिद्धिः । तस्या अग्रदूती । किं प्रथमशासनहारिकेव ॥ इति सूरिपुरो निशीथे शासनदेवतागमनम् ॥ अथ शासनदेवतावर्णनारम्भः
બ્લેકાર્થ સ્વપ્નાવસ્થામાં પણ શાસનદેવી આચાર્ય આગળ પ્રત્યક્ષવત પ્રગટ થઈ. તે જાણે હીરવિજ્યસુનિા અભિલાષરૂપ વૃક્ષની પલ્લવ-લક્ષ્મી ન હોય ! અથવા સરિમંત્રના જાપની જાણે સિદ્ધિ ન હોય ! અથવા સિદ્ધિ નામની દેવીની સેવિકા ન હોય ! પાતળી