________________
सर्ग ८ श्लो० ६-८ ] हीरसौभाग्यम् પિતાના સિંહાસનને જોઈને શાસનદેવીનાં રેષથી-લાલ બનેલાં નેત્રોએ રકતકમલની ઉપમાને ધારણ ४१. ॥ ६ ॥
ध्यानस्थित शासनदेवता सा, निपीय तं ज्ञानदृशा वशीन्द्रम् । मुदं दधारामृतकुण्डमध्य-प्रणीतलीलाप्लवनेव चित्ते ॥ ७ ॥ सा ध्यानगोचरीकृता शासनदेवता श्रीजिनमताधिष्ठायिका निर्जरी ज्ञानदृशा निजावधिज्ञानलोचनेन ध्यानस्थित प्रणिधानोपविष्टं हीरविजयनामान वशीन्द्र जितेन्द्रियाणामधिराज सूरि निपीय सादरमवलोक्य चित्ते स्वमानसे मुदमानन्दं दधार धत्ते स्म । प्रमोद प्रापेत्यर्थः । उत्प्रेक्ष्यते-अमृतस्य सुधायाः कुण्डे परितो निबद्धानेकसोपानपटलप्रवणे जलाशये अर्थादमृतकुण्डमध्ये प्रणीत कृत लीलया स्वैरक्रीडया। नतु तापमलापनोदाय देवानां तापाद्यभावात् । आप्लवन स्नान यया तादृशीव । 'स्नान सवनमाप्लवः' इति हैम्याम् । आप्लवनमाप्लवः इति वाक्यमेवानीतमस्तीति ॥
લેકાર્થ ત્યાર પછી શાસનદેવીએ અવધિજ્ઞાનવડે ધ્યાનસ્થ એવા હીરવિજયસૂરિને જોઈને, સુધાકુંડમાં ક્રીડા કરવાથી જે આનંદ પ્રાપ્ત થાય, તેના કરતાં અનેક ગુણ આનંદ અનુભવ્યો. | ૭ |
अथाविरासीद्वशिशीतकान्तेः, पुरः स्फुरज्जैनमताधिदेवी ।
प्रसादितोपासनया शमश्री-रिवेयमङ्गीकृतकाययष्टिः ॥ ८ ॥ अथ ध्यानस्थिरस्थायुकसूरीन्द्रदर्शनानन्तर स्फुरन्ती वपुराभरणमणिदीप्तिभिर्दीप्यमाना जिनानां तीर्थकृताम् । अथवा जिनस्य महावीरस्येद जैनम् । तादृशं मत शासन तस्याधिदेवी अधिष्ठात्री देवता वशी जितेन्द्रियग्रामो मुनिजनस्तन्मध्ये शीतकान्तेश्वन्द्रस्यैतावता सूरीन्द्रस्य पुरोऽने आविरासीत्प्रकटीभूता । उत्प्रेक्ष्यते-उपासनया निरन्तरसेवनया कृत्वा प्रसादिता प्रसादयुक्ता विहिता। प्रसन्नीकृतेत्यर्थः । अत पवाङ्गीकृता उपात्ता गृहीता काययष्टिस्तनूलता यया तादृशी शमश्रीमूतिमती उपशमलक्ष्मीरिव प्रभोः पुरः प्रादुर्भूता ॥
કલેકાર્થ મુનિઓમાં ચંદ્રસમાન ધ્યાનસ્થ હીરવિજયસૂરિની આગળ અલંકારાદિવડે વિભૂષિત શરીરવાળી જૈનશાસનની અધિષ્ઠાયિકા દેવી પ્રત્યક્ષ થઈ. તે જાણે નિરંતર ઉપાસનાવડે પ્રન્ન થયેલી મૂર્તિમાન શમશ્રી' ન હાય ! | ૮ |