________________
५०८
हीरसौभाग्यम् [सर्ग ८ श्लो० ४-६ ध्यायति स्म । कामिव । खां स्वकीयां गोत्रत्रिदशीमिव । यथा कश्चित्पुमानिजां कुल देवतां ध्यानगोचरां कुरुते । 'निपीय त यस्त्रिदशीभिरजितः' इति नैषधे । 'गोत्रं तु संतानोऽन्ववायोऽभिजनः कुलम्' इति हैम्याम् ॥ इति सूरेानविधानम् ॥
બ્લેકાર્થ એકાંતમાં સરિમંત્રનો જાપ કરતા શ્રીહીરવિજ્યસૂરિએ, જેમ કેઈ પુરુષ ગોત્રદેવીનું સ્મરણ કરે તેમ શ્રીજિનશાસનની અધિષ્ઠાયિકા શાસનદેવીનું હૃદયમાં ધ્યાન કર્યું (મરણ કર્યું). જા
ध्यानानुभावेन ततो निशीथे, मरीशितुः शासनदेवतायाः ।
केतुनिकेतस्य रयेण वायो-रिव क्षणादासनमाचकम्पे ॥ ५॥ ततो ध्याने जिनशासनाधिष्ठायिकास्मृतिगोचरीकरणानन्तर सूरीशितुर्दीरविजयसू. रीश्वरस्य ध्यानानुभावेन प्रणिधानमाहात्म्येन शासनदेवताया निशीथेऽर्धरात्रे आसनमुपवेशनस्य विष्टरम् । 'विष्टरः पीठमासनम्' इति हैम्याम् । आचकम्पे आ सामस्त्येन दोलायमानमासीत्प्रचलति स्म । क इव । केतुरिव । यथा निकेतस्य गृहस्य केतुः वैजयन्ती वायोः पवमानस्य रयेण वेगेन कृत्वा कम्पते चञ्चलीभवति ॥
લોકાઈ જેમ મંદિર ઉપરની ધ્વજા પવનના વેગથી કંપાયમાન થાય તેમ હીરવિજ્યસૂરિના ધ્યાનના પ્રભાવે અર્ધરાત્રિના સમયે શાસનદેવીનું આસન કંપાયમાન થયું. ૫ છે
स्वविष्टर कम्प्रमवेक्ष्य बिम्ब-मिवोत्तरङ्गाम्बुधिविम्बितेन्दोः ।
शोणारविन्दायितमीक्षणेन, रोषारुणेन त्रिदशाङ्गनायाः ॥ ६॥ त्रिदशाङ्गनाया जिनशासनदेवतायाः रोषेण कोपेन कृत्वा अरुणेन रक्तीभूतेन ईक्षणेन लोचनेन । नयनद्वन्द्वेनेत्यर्थः। शोणारविन्दायित कोकनदमिवाचरितम् । अत्र गगर्भितोपमाम्ते । किं कृत्वा । स्वस्यात्मनः स्वमात्मीय विष्टर सिंहासनमवेक्ष्य विलोक्य । किंभूत विष्टरम् । कम्म कम्पनशील चञ्चलीभूतम् । किमिव । बिम्बमिव । यथा उदूर्ध्व गगनचुम्विनस्तरङ्गाः कल्लोला यस्य एतावता समयस्वभावेन प्रबलपवनवेगप्रवृद्धो यो. ऽम्बुधिः समुद्रस्तत्र बिम्बितः रात्रौ जलस्यातिस्वच्छभावेन संक्रान्तः । 'यद्यपि स्व. च्छभावेन दर्शयत्यम्बुधिमणीन् । तथापि जानुदन्नोऽयमिति चेतसि मा कृथाः ॥' इति वचनात् । प्रतिबिम्बितो य इन्दुश्चन्द्रस्तस्य बिम्बि प्रतिमाभाव प्राप्त मण्डल कम्पते अतिशयेन कम्पनशील स्यात् ॥
કાથ ગગનચુંબી અને કંપનશીલ તરંગવાળા સમુદ્રમાં પડેલા ચંદ્રમંડલના બિંબની જેમ કંપાયમાન