________________
मर्ग ८ श्लो० २-४ ] हीरसौभाग्यम्
५०७ आबभासे लामस्त्येन शोमते स्म । उत्प्रेक्ष्यते-वाश्रिया संयमलक्ष्म्या विलासार्थ क्रीडाकृते पर्यकः पल्यङ्क इव । स कः । यस्मिन् पर्यङ्कबन्धे शेषः शेषनामा नागाधिराजो हृदा स्वमनसा इत्यमुना प्रकारेण समशेत संशय कृतवान् । इति किम् । यदमुष्य पर्यङ्कबन्धस्य भरो भारोऽसहायेन एकेनैव मया कथं केन प्रकारेण विषह्यो वि. शेषेण सहनीयः । धार्य इत्यर्थः । ध्यानभाजां हि योगीन्द्राणां ध्यानसमये पर्यङ्कबन्ध स्यानिशायी भारो भवतीति कविसमयः । यदुक्तं कुमारसंभवे –'ततो भुजंगाधिपतेः फणारधः कथंचिद्धतभूमिभागे । शनैःकृतप्राणविमुक्तिराशेः पर्यङ्कबन्ध निबिड बि. भेद ॥' इति ॥
લકા ધ્યાનના સમયે સૂરીન્દ્રનું પહ્માસન જાણે સંયમરૂપી લમીને વિકાસ કરવા માટે પલંગ ન હૈય, એવા તે પદ્માસન અંગે શેષનાગના હૃદમાં આવો સંશય પેદા થયો કે “આ પકબંધને ભાર એકાકી એ હું કઈ રીતે સહન કરી શકીશ ? કારણ કે ધ્યાનસ્થ યોગીઓને પદ્માસનને अतिशय भार हाय. ॥२॥
भुजान्तरासन्नशयारविन्दे, विभोश्चकासे विशदाक्षमाला । .
हृद्ध्यानदुग्धाम्बुनिधिप्रतीरं, प्रपेदुषी किं कलहंसपङ्क्तिः ॥ ३ ॥ भुजान्तरस्य वक्षःस्थलस्य आसन्ने समीपवर्तिनि शयारविन्दे करकमले धवलवर्णा अक्षमाला जपमालिका चकासे भासते स्म । उत्प्रेक्ष्यते-हृदि हीरविजयसूरिहृदयविषये यो ध्यान शुक्लप्रणिधान तदेव दुग्धाम्बुनिधिः क्षीरसमुद्रस्तस्य प्रतीर तट प्रपेदुषी प्राप्तवती मानसादिजलाशयेभ्यः स्वैर विलासरसिकायितमानसा समागतवती कलह सानां राजमरालानां मालाधोरणी पक्तिरिव ॥
શ્લેકાર્થ
વક્ષસ્થલની સમીપ હસ્તકમલમાં મતવણ જપમાલા શેળે છે, તે જાણે શ્રીહીરવિજયસૂરીના હૃદયમાં શુકુલ ધ્યાનરૂપ ક્ષીરસમુદ્રના કિનારાને પામેલી રાજહંસની પંકિત ન હોય ! ! ! !
श्रीसरिमन्त्रं विजने व्रतीन्द्रो, जपन् स गोत्रत्रिदशीमिव स्वाम् ।
दध्यौ हृदा श्रीजिनशासनस्या-धिष्ठायिकां निर्जरनीरजाक्षीम् ॥ ४ ॥ विजने एकान्ते अपरजनरहितस्थाने श्रिया सर्वशक्तिलक्ष्म्या युक्तः सूरीणामाचार्याणां मन्त्र जपन् ध्यायन् सन् वतीन्द्रो हीरविजयसूरिः हृदा मनसा कृत्वा षड्दर्श नेष्वपि सर्वातिशायिन्या श्रिया लक्ष्म्या शोभया वा कलितस्य जिनशासनस्य अधिष्ठा यिकां प्रत्यक्षसांनिध्यविधायिनीं निर्जरनीरजाक्षी नाकिकमललोचनां देवतां दध्यौ