SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ५.४ हीरसौभाग्यम् [सर्ग ७ श्लो० ९२-९३ द्वैतनादैस्तुमुलैर्वा कृत्वा दुग्धाब्धिः क्षीरसमुद्रो ज्ञायते । तथा कन्दरा गुहा एव मन्दिराणि निवाससदनानि तेषामझ्के उत्सङ्गे । कन्दरशब्दस्त्रिषु लिङ्गानुशासने । यथा 'पिठर. प्रतिसरपात्रकन्दरा' इति । विलुठतामितस्ततः पाश्व परिवर्तयतां कण्ठीरवाणां मृगेन्द्राणां श्वेडितैः श्वेडाशब्दैः सिंहनादैः । श्वेडा तु सिंहनादोऽथ' इति हैम्याम् । कृत्वा शैलाः पर्वता शायन्ते अवबुध्यन्ते । अवलोककैरित्यध्याहारः । शारदीनसान्द्रचन्द्रिकया क्षोणी. 'मण्डले धवलीकृसे एतैरभिशानः कृत्वा प्रागुक्ताः पदार्थाः कथमप्यवबुध्यन्ते बुधैरित्यर्थः ॥ લોકાર્થ આકાશગંગાનાં ફીણ જેવા અતિત ચંદ્રને ઉદય થતાં પથ્વીની સુધા સમાન રાજમહેલ હાથીઓના ગરવથી પ્રતીત થાય છે. પડવાઓથી પુછ પરસ્પર મળેલા તરંગોના કોલાહલથી ક્ષીરસમુદ્ર જણાય છે ! તેમજ ગુફારૂ૫ આવાસની મધ્યમાં રહેલા સિંહોના સિંહનાદથી પર્વત જણાય છે ! ચન્દ્રને ઉદય થતાં આ રીતે ઉપર્યુંકત વસ્તુઓ જણાય છે. ૯૨ दुग्धाम्भोनिधिनिर्जरा इव नराः सर्वेऽपि संजज्ञिरे, स्वःसिन्धोरधिदेवता इव व स्त्रस्यत्कुरङ्गीदृशः । स्फारस्फाटिकरत्नकोटिघटितेवासीत्पुनर्मे देनी, क्षुभ्यत्क्षीरसमुद्रसान्द्रविभवे जाते शशाङ्कोदये ॥५३।। क्षुभ्यतः हरिणा मन्दरमन्याचलनिर्मथनावसरे क्षोम प्राप्नुवतः इतस्ततः सडिण्डीर.. पिण्डपाण्डुरसलिलोच्छलनेनातीव शुभ्रिममाजः क्षीरसमुद्रस्येव सान्द्रोऽतिस्नेहलो बहली. भूतो वा विभवो धवलिमश्रीर्यस्य तादृशे शशाङ्कोदये चन्द्राभ्युद्गमने जाते सति सर्वे समस्ता अपि नारा भूचराः पुरुषाः दुग्धाम्भोनिधेः क्षीरनीरनिर्जरा अधिष्ठातृसुरा इव संजज्ञिरे । ते हि अतीव शुभ्रवपुर्वसनविभवाः स्युः । अत एव तदुपमानम् । पुनस्त्रस्यन्त्यस्त्रासं प्राप्नुवत्यो या कुरझगयो मृगागनास्तद्वत्तरलाश्चञ्चला दृशो यासाम् । एतावता वनिताः सर्वा अपि स्वःसिन्धोर्गगाया अधिदेवता इव अयिष्ठायिका देवता गङ्गादेव्य इव बभुः शोभन्ते स्म । पुनर्मेदिनी पृथ्वी । उत्प्रेक्ष्यते-स्फारा अना ये स्फाटिकाः स्फटिकमणिसमूहास्तेषु रत्नान्यतीव सारमणयः मुख्यानि वा । यदुक्तम्-'येषां मन्दररत्नशैलशिखरे जन्माभिषेकः कृतः' इति स्नातस्यास्तुतौ । मन्दराणां धातुकीखण्डपुष्करार्धद्वीपसत्कानां चतुर्णा मेरूणां मध्ये रत्न सर्वेभ्य उच्चस्तरत्वेन लक्षयोजनप्रमाणत्वेन मुख्य इत्येकव्याख्या । तेषां स्फाटिकमणीनां कोठ्यस्ताभिः कृत्वा घटितेव निष्पादितेवासीद्वभूव भूमी ॥ इति चन्द्रिकाभ्युदये विविधा भावाः ॥ પ્લેકાર્થ સુબ્ધ બનેલા ક્ષીરસમુદ્ર જેવી શુભ્રતાના વૈભવવાળા ચંદ્રને ઉદય થતાં સર્વે પુરુષો ક્ષીરસમુદ્રના અધિષ્ઠાયિક દેવ જેવા બની ગયા ! ભયભીત બનેલી હરણીઓ જેવાં ચપલ નેત્રોવાળી સ્ત્રીઓ
SR No.005967
Book TitleHeersaubhagya Mahakavyam Part 01
Original Sutra AuthorDevvimal Gani
AuthorSulochanashreeji
PublisherKantilal Chimanlal Shah
Publication Year1977
Total Pages614
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size86 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy