________________
मर्ग ७ श्लो० ९१-९२] हीरसौभाग्यम्
५.३ काशनार्थे दृश्यते । करवाणां श्वेतकमलानां शङ्कया भ्रमेण कुवलयानि नीलोत्पलानि उत्तंसयन्ति अवतंसानि कुर्वन्ति । शिरसि श्रवणयोर्वा अवतंसनिर्माणस्थानद्वन्द्वमिद ह. श्यते शास्त्रादौ यथा । 'आपीडशेखर सावतंसाः शिरसः सजि' इति हैम्याम् । तथा 'विलोचनाभ्यामतिमात्रपीडितेऽवतंसनीलाम्बुरुहद्वयीं खलु । तयोः प्रतिद्वन्द्वितयाधिरोपयांबभूवतुर्भीमसुताश्रुती ततः ॥' इति नैषधे । पुनर्मालिकानां मालाकारकाणां बलिकाः कुमार्यः । अथवा बाला एव बालिकाः स्त्रियः। केलीवने क्रीडाकानने स्वेषां परेषां राजादीनां वा । 'नित्योहयोतपदं समस्तकमला केलीगृहे राजते' इति श्रीचिन्तामणिपार्श्वनाथस्तोत्रे केलीशब्दो दीर्घोऽप्यस्ति । सुमधिया पुष्पबुद्धया भृङ्गान् भ्रमरान् गृहन्ति । पुनमुक्तानां मुक्ताफलानां भ्रान्ति भ्रम बिभ्रतीति मुक्ताभ्रान्तिभृतः मौक्तिकभ्रमधारिण्यः किरातवनिताः पुलिन्दपुर ध्रयः गुञ्जाब्रजांश्चिन्वन्ति आददते ॥
પ્લેકાર્થ ગગનમંડળમાં દેદીપ્યમાન ચંદ્રની પ્રસરતી નીલી ચંદ્રગોલિક કયા પુરુષ યા સ્ત્રીને ભ્રમ પેદા નથી કરતી ? મુગ્ધ સ્ત્રીઓ વિકસ્વર તમલની બ્રાન્તિથી નીલકમલની વેણી આદિ આભૂષણો બનાવે છે ! વળી ક્રીડાવનમાં માળી-કન્યાઓ પુષ્પની બુદ્ધિથી ભ્રમરોને ગ્રહણ કરે છે ! ભીલની સ્ત્રીઓ મોતીની ભ્રાન્તિથી મુંજા (ચણોઠી)ના સમૂહને ગ્રહણ કરે છે ! અર્થાત્ નીલ એવી ચંદ્રગોલિકાવડે શ્વેતવસ્તુની બ્રાન્તિથી નીલવર્ણની વસ્તુ ગ્રહણ કરાય છે, ૯૧ ज्ञायन्ते वसुधासुधाकरगृहा ग॥रवैः कुम्भिनां,
दुग्धाब्धिः प्रतिनादमेदुरमिलत्कल्लोलकोलाहलैः । शैलाः कन्दरमन्दिराङ्कविलुठत्कण्ठीरवक्ष्वेडितै
र्जाते श्वेतकरोदयेऽम्बरसरिड्डिण्डीरपिण्डोपमे ॥१२॥ • अम्बरसरितो गगनापगायाः सिद्धसिन्धोः । भूपीठस्थगङ्गायास्तु प्रावृट् सरनीरवाह. वर्षणप्रकर्षप्रवहत्प्रबलजालाविलीभवजलजम्बालिनीप्लवमिलनात्कदाचित्कालुष्यमपि भव. त्येव । यदुक्तम्-'गङ्गानीरमपि त्यजन्ति कलुषं ते राजहंसा वयम्' इति । पर नभोनद्यां तु कदाचिदप्याविलीभावो न स्यादेव । तस्मादाकाशगङ्गायाः डिण्डीराणां फेनानां पिण्डाः समूहाः । 'पिण्डो वृन्दे जपापुष्पे गोले चोलेऽमसिहयोः। कवले च' इत्यनेकार्थः । तेषामुपमा सादृश्य यस्य तादृशे श्वेतकरस्य चन्द्रस्य उदये जाते सति । वसुधा पृथिवी तस्या आह्लादकारकत्वात्सुधाकराश्चन्द्रा अतिन्यायि[य]वत्तया सुधासदृशा उचितातिस्तोकत्वेन अमृतोपमानाः करा राजदेयांशा येषाम् । 'इदं तमुर्वीतलशीतला. तिम्' इति नैषधे । तेषां राज्ञां गृहा आवासाः ते कुम्भिनां मदोद्धरसिन्धुराणां गर्जारवैः कृत्वा शायन्ते नक्तं राजकार्यायागतराजसेवकैरवसीयन्ते उपलक्ष्यन्ते वा । तथा प्रतिनादैः प्रतिशब्दैः कृत्वा मेदुरैः पुष्टैवृद्धि प्राप्तैर्बहलीभूतैर्वा मिलतामन्योन्य संगच्छता संनिहितीभवताम् । वा अथवा स्वयमेव प्रादुर्भवतां कल्लोलानां तरङ्गाणां कोलाहलैर