________________
५०२
सौभाग्यम्
गङ्गावज्जलजन्मबन्धुतनया स्वःकुम्भिवत्कुठजरो, नीर क्षीरवदुत्पल कुमुदवत्कादम्बवद्वायसः ।
वल्ली मौक्तिकहारवन्मरकतश्रेणीशशाङ्काश्मव
[ सर्ग ७ श्लो० ९०-९१
लक्ष्मीं कांचिदमी दधुः सितरुचौ चन्द्रापं चिन्वति ॥९०॥
तिरुच शारदीने चन्द्रे चन्द्रातप चन्द्रगोलिकां चिन्वति पुष्णति उपचय प्रापयति सति । विस्तारयतीत्यर्थः । अभी अत्रैव वृत्ते प्रकाश्यमाना यमुनादयः पदार्थाः कांचिदनन्यां लक्ष्मीं शोभां दधुबिभ्रति स्म । तानेव दर्शयति कविः - जलजन्मनां कमलानां बन्धुः सूर्यः तस्य तनया पुत्री यमुना । 'यमुना यमभगिनी कालिन्दी सूर्यजा यमी' इति हैम्याम् । गङ्गालक्ष्मीं धत्ते । चन्द्रिकया शुचीभवत्पयः प्रवाहत्वेन गङ्गासाम्यमापेत्यर्थः । तथा कुञ्जरो गजः । जातावेकवचनं सर्वत्रापि योज्यम् । समस्ता अपि हस्तिनः स्वःकुमिभवत् ऐरावणगजवद्वैभव बिभ्रति स्म । नीर समग्रमपि जल क्षीरव दुग्धमिव । तथा उत्पल' कुवलयनीलकमलमण्डल' कुमुदवत्कैरवमिव श्वेतारविन्दमिव । तथा वायसः कोलः सर्वेऽपि बलिभुजः कादम्बवत्कलह सा इव । तथा मरकतानां गारुत्मतानां नीलमणीनां श्रेणी माला शशाङ्काश्मवच्चन्द्रकान्तरत्नपक्तिरिव । तथा वल्ली समग्रलतावितान मौक्तिकहारवन्मुक्ताफलकलाप इव शोभां बभार ॥
શ્લાકા
જેમ સૂર્યપુત્રી યમુના ગંગાની, સર્વે હાથીઓ એરાવણની, સમચ स क्षीर (दूध )नी, નીલકમલ શ્વેતકમલની, કાગડા કલહસની, નીલમણિની પ ંક્તિએ ચંદ્રકાન્ત રત્નની, તેમજ સમગ્ર લતાએ મુસ્તહારની શાભાને ધારણ કરે, તેમ ચંદ્રમાં રહેલી ચંદ્રગાલિકા અનન્ય શાભાને ધારણ
२०
स्मेरत्कैरवशङ्कया कुवलयान्युत्तंसयत्यङ्गना,
भृङ्गान्मालिकबालिकाः सुमधिया गृह्णन्ति केलीवने ।
मुक्ताभ्रान्तिभृतः किरातवनिताश्चिन्वन्ति गुञ्जाव्रजां
चन्द्रमसो भ्रमं वितनुते नो कस्य चन्द्रातपः ॥ ९१ ॥
चचतो गगनमण्डले निखिलकलाकलापकलनदीप्यमानस्य चन्द्रमसः सुधादीधितेः चन्द्रातपः प्रतिहरित्प्रसृत्वरसान्द्रचन्द्रिका कस्य पुंसः स्त्रीगणस्य वा भ्रमं भ्रान्ति वित
चिते । अपि तु सर्वस्यापि करोतीत्यर्थः । तमेव प्रदर्शयति - अङ्गना मुग्धकामिन्यः स्मेरतां विकसताम् । 'स्मेरदम्भोरुहा रामपवमानमिवानिलः' इति पाण्डवचरित्रे स्मेरद्वि