________________
५०१
हीरसौभाग्यम्
[सर्ग ७ श्लो० ८७-८९
Ram . . . . . ચંદ્રિકાએ પૃથ્વીની પ્રત્યેક દિશા ઉજજ્વલ બનાવી, તે જાણે પૃથ્વી મિતીઓનાં ચૂર્ણોથી ભરાઈ ગઈ ન હોય ! અથવા અમૃતના પ્રવાહીથી વિલેપન કરાયું ન હોય ! અથવા ચંદ્રને દ્રવથી અભિષેક કરાઈ ન હોય ! ૮૭
आप्लाविते किं सुरसिन्धुसुभ्रवः, स्रोतःसहस्रः परितः प्रसृत्वरैः । कर्पूरपारीविलसद्यशोभरैः, मरीशितुर्वा विशदीकृते इव ॥८॥
विलीयमानैस्तुहिनावनीभृ-नीहारचारैनिभृत भृते वा ।
प्रपूरिते सान्द्रितचन्द्रचन्द्रा-तपैर्वि भातः स्म दिवस्पृथिव्यौ युग्मम् ॥८९॥ सान्द्र नीरन्ध्रत्व संजातमेषामेषु वा इति सान्द्रिता बहलिताश्चन्द्रस्य निशानायकस्य चन्द्रातपाश्चन्द्रगोलिकास्तैः प्रपूरिते प्रकर्षेण पूर्णीकृते । सर्वतोऽपि निर्भर' भरिते व्याप्ते इत्यर्थः । दिवस्पृथिव्यौ द्यावाभूम्यौ विभातः स्म । तत्रोत्प्रेक्ष्यते-परितः सर्वतोऽपि दशदिक्प्रदेशेष्वपि प्रसृत्वरैः प्रसरणशीलैः सुराणां देवानां सिन्धोः समुद्रस्य सुभुवः पन्याः। 'कर्बुद्वीपवतीसमुद्रदयिताधुन्यौ सवन्तीसरस्वत्यौ' इति हैम्याम् । देवनद्या गङ्गायाः स्रोतसां पयःप्रवाहाणां सहस्त्रैर्दशशतीभिः आप्लाविते किम् । स्वकुक्षिगतीकृते इव निर्भर भृते इत्यर्थः । वा पुनरुत्प्रेक्ष्यते-सूरीशितुहीरविजयसूरीन्द्रस्य । पुनः सूरिनामग्रहण बहुबहुमानसूचकम् । कर्पूराणां घनसाराणां पार्यः । 'फडसि' इति लोके प्रसिद्धाः । 'पारी पूरपरागयोः । पात्र्यां कर्करिकायां च पादबन्धे च हस्तिनः ॥' इत्यनेकार्थः। 'कर्पूरपारिपरिधूसराङ्गम्' इति तद्वृत्तिः।तथा 'कर्परपूरकमनीययशोभिरामम्' इति स्तुत्यादौ । तत्र पूरशब्देन समूह एव । तद्वद्विलसद्भिः शुभ्रिमविभ्रमैः शोभमानः यशसां भरैः 'लोकानां प्रकरैः । 'प्रलोकः कीर्तिर्य शोऽभिख्या समाशा' इति हैम्यां यशोनामानि । विशदीकृते इव । पुनरुत्प्रेक्ष्यते-विलीयमानर्गलभिर्द्रवीभवद्भिः तुहिनावनीभृतो हिमाचलस्य नीहारचारैहिमनिव हैनिभृत निचित भृते वा भरिते वा । युग्मम् ॥ इति चन्द्रचन्द्रिकायाः प्रचारः ॥
सार्थ
..... . નીર ધ ચંદ્રિકાવડે સંપૂર્ણપણે વ્યાપ્ત બનેલાં આકાશ-પૃથ્વી શોભે છે. તે જાણે સમુદ્રની આકાશગંગાના પ્રસરેલા લાખો જલપ્રવાહથી આકાશ–પૃથ્વી ભરાઈ ગયાં ન હોય ! અથવા, હીરવિજયસરિના કપૂરની ગોટીઓ જેવા ઉજજવલ યશના સમૂહથી આકાશ–પૃથ્વી નિર્મળ કરાયાં ન હેય ! અથવા હિમાલયના પ્રવીભૂત થયેલા બરફના સમૂહથી આકાશ-પથી વ્યાપ્ત બન્યાં ન હેય. આ રીતે આકાશ–પૃથ્વી ચંદ્રિકા વડે ઉજજવલ બનાવાયાં. પ૮૮૯