________________
सर्ग ७ श्लो० ८५-८७] हीरसौभाग्यम् चनात् । चन्द्रोदये भानुरस्तमीयते । सूर्यः स्वोदये च चान्द्रमसीं सर्वामपि विभूतिमादत्ते इति परस्परशत्रुतापि । तस्य ध्वान्तस्य सूर्यस्य वा निर्जयात्पराभवादुद्भवन्तीभिः प्रकटाभिर्जायमानाभिः कीर्तिभिः किमु समानाभिरिव दिवस्पृथिव्यौ व्याप्ते ॥
ચંદ્રિકાએ સમુદ્રપર્યત પૃથ્વી અને આકાશ બંનેનું ઉદર ભર્યું ! અર્થાત ચંદ્રિકાથી આકાશપૃથ્વી છવાઈ ગયાં, તે જાણે, અંધકારરૂપી શત્રુને પરાજ્ય કરવાથી ઉત્પન્ન થયેલી ચંદ્રની કીર્તિથી. આકાશ-પી વ્યાપ્ત બની ગયાં ન હોય ! u૮પા
भूमीनभोमण्डलमेदुरश्री-ज्योत्स्नावपुर्विष्णुपदीप्रवाहैः ।
नक्तंदिन जहनुपदप्रसत्तेः, प्राकाम्यरूपा किमवापि सिद्धिः ॥८६॥ भूमी पृथिवीपीठ नभोमण्डल गगनस्थल तयोविषये मेदुरा उपचयप्राचुर्य प्राप्ता श्रीलक्ष्मीः शोभा वा यस्यास्तादृशी ज्योत्स्ना कौमुदी सैव वपुर्गात्रयष्टिर्यस्यास्तादृश्या विष्णुपद्या गङ्गायाः प्रवाहैः प्रसरत्पयःपूरैर्नक्तंदिन रात्री दिवा च जह्नोर्नारायणस्य पदमाकाश चरणश्च तस्य प्रसत्तेः प्रसादनतः । 'प्रसादन प्रसत्तिः' इति व्युत्पत्त्या सेवनमित्यर्थः । भक्तेः सकाशात् । उत्प्रेक्ष्यते- प्राकाम्यरूपा रोदःकन्दरविस्तरणशीला बहुरूपकारिणी सिद्धिः फलनिष्पत्तिरवापि किं लब्धा संप्राप्तेव ॥
લેકાર્થ પવીપીઠ ઉપર અને ગગનમંડલમાં અત્યંત વ્યાપી ગયેલી શોભાવાળી ચંદ્રિકારૂપ કાયાવાળી આકાશગંગા, તે આકાશગંગાના પ્રવાહથી નિરંતર વિષ્ણુના ચરણની અર્થાત આકાશની ઉપાસના થવાથી, ઉપાસનાના-ફળરૂપે આકાશ-પૃથ્વવ્યાપી સિદ્ધિ જાણે પ્રાપ્ત કરાઈ ન હોય ! u૮૬
चूर्णैः प्रपूर्णा किमु मौक्तिकानां, पीयूषपकैः किमु वा [विलिप्ता । श्रीखण्डनीरैरथवा]भिषिक्ता, ज्योत्स्नाभिरुवीं धवलीकृताभात् ।।८७।।
__ ज्योत्स्नाभिः [धवलीकृता] प्रतिदिश प्रसरश्चन्द्रसान्द्रचन्द्रिकाभिनिरन्तरमतिश्वेततां प्रापिता उर्वी समस्तापि वसुमती आ[भात् आ]बभासे । उत्प्रेक्ष्यते-मौक्तिकानां स्थूलमुक्ताफलानां चूर्णैः क्षोदेनिष्पिष्य सूक्ष्मीकृतरजोभिः प्रपूर्णा प्रकर्षण (धवलीकृता) पूरिता किमु भरितेव । वा अथवा पीयूषपङ्करमृतकदमैः स्त्यानीभूतसुधारसैविलिप्ता किमु · विशेषेण कृतविलेपनेव अजगरागकलिता कृता । अथ वा श्रीखण्डनीरैः स्थूलघृष्टचन्दनवारिद्रवैरभिषिक्ता किं कृताभिषेकेव ॥
x ज्योत्स्नाभिः इत्युत्तरमुचितोऽपि 'धवलीकृता' इति पाठः कैश्चिदत्र प्रक्षिप्तः।। .....