________________
सर्ग ७ श्लो० ८३-८५ ] हीरसौभाग्यम्
४९९
ज्योत्स्नातनुश्चन्द्रिकाकाया पीयूषसंततिरमृतराजी । उत्प्रेक्ष्यते इति विचिन्तयन्ती सती अचलायास्तले मण्डले अवततार उत्तीर्णेव । इति किम् । यथेत्यध्याहारः । यथाह स्वर्ग' देवलोक गता संप्राप्ता सती क्रतुभुजां यज्ञांशभोजिनां देवानां तृप्त्यै सौहित्याय बुभुक्षोपशमाय प्रभवामि समर्थीस्यां तद्वत्तथा घरामधिगत्य पृथिवीं संप्राप्य मनुष्याणामप्यनाशनानां नित्यं सदा तृप्तिकृते समर्थीभवामि ॥
Àાકા
ચંદ્રિકાની અમૃતશ્રેણિરૂપ કાયા, આ પ્રમાણે વિચાર કરતી જાણે અસ્તાચલ તરફ ઉતરતી ન હાય ! ‘જેમ સ્વĆલાકમાં રહેલી હું યાજ્ઞિક દેવાની તૃપ્તિ માટે સમર્થ છું તેવી રીતે પૃથ્વીમાં આવીને મનુષ્યાને પણ તૃપ્ત કરવા માટે સમ થાઉં ! ૫૮૩૫
प्रससार महीविहायसो - मिंहिकादीधितिदीधितिव्रजः । युवतेरिव शीतदीधिते - रुपसंव्यानममेचकद्यति ॥ ८४ ॥
मिहिकादीधितेर्हिमकिरणस्य विधोः । 'प्रालेय मिहिका हिमम् । स्यान्नीहारस्तुपारश्व' इति हैम्याम् । दीधितीनां व्रजो निकरः महीविहायसोभूमीनभसोः प्रससार विस्तरति स्म । द्यावापृथिव्योः समकाल विस्तार प्राप्त इत्यर्थः । उत्प्रेक्ष्यते--शीतदीधितेश्चन्द्रस्य युवतस्तरुण्या यामिन्या अमेचकाः श्वेता न मेचका अमेचका उज्ज्वला द्युतिः कान्तिर्यस्य । 'या कुन्देन्दुतुषारहारधवला या श्वेतपद्मासना या वीणावरदण्डमण्डित - करा या शुभ्रवस्त्रावृता' इति विशेषणाद्वाग्देवतावसनव द्विशदमुपसंव्यानं परिधानवस्त्रमिव । 'गुणशब्दो विरोध्यर्थं नजादिरितरोत्तरः । अभिधत्ते यथा कृष्णः स्यादखितः सितेतरः ॥ ' इति हैम्याम् ॥
કાર્થ
ચંદ્રની કાન્તિને સમૂહ સમકાલે આકાશ–પૃથ્વીમાં ફેલાયા, તે જાણે ચંદ્રરૂપી યુવતિને પહેરવાનુ ઉજવલ ક્રાન્તિવાળુ વસ્ત્ર ન હોય ! ૮૪૫
वारिराशिरशनाविहायसोः, कौमुदीभिरुदर स्म पूर्यते । अन्धकाररिपुनिर्जयोदभव-कीर्तिभिः किमु कुमुद्वतीपतेः ||८५||
कौमुदीभिश्चन्द्रिकाभिर्वारिराशिः समुद्रः स एव रशना मेखला यस्या एतावता स[स] मुद्रा मेदिनी । मेखला तु शरीरान्तरेऽवस्थायिनी न पृथग्भवतीति । अतः समुद्रसहिता महीति समेतम् ( ? ) । तथा विहाय आकाश तयोरुदर मध्य पूर्यते स्म पूर्वीक्रियते स्म । व्याप्तमित्यर्थः । उत्प्रेक्ष्यते-- कुमुद्वतीपतेः कैरचिणीकान्तस्य विधोः अन्धकार एव रिपुर्ध्वान्तशत्रुः । अथ वा रिपुः सूर्यः । 'मित्रो ध्वान्तारातिरब्जांशुः' इति हैमीव