________________
४९८
हीरसौभाग्यम् सर्ग श्लो० ८०-८३ વિનાનું છત્ર ન હોય ! અથવા કામદેવરૂપી રાજાનું હાથમાં પકડી શકાય તેવા હાથા વિનાનું સ્વયં ચાલતું જાણે દર્પણ ન હોય ! અથવા કામદેવરૂપી રાજાનું જાણે જંગમ કીડાસરોવર ન હોય. ૮૦થા
भीतेः स्विकाया दिवसस्य लक्ष्मी, विज्ञाय नष्टामिह जीवनाशम् । - विद्मो वसत्या हसित हसन्त्या, ज्योत्स्ना जजाम्भे गगने सुधांशोः ।।८१॥
सुधांशोश्चन्द्रस्य मनागित्यध्याहार्य ततः किंचित् ज्योत्स्रा चन्द्रिका जज़म्मे प्रकटी. भूता विस्तृता वा । इहात्र ज्योत्स्नाविज़म्भणे अयमेवं विद्मो जानीमः। विचारयाम इत्यर्थः । इह जीवलोके स्विकायाः स्वस्याः राज्याः सकाशात् । 'हंस तनौ संनिहित वरन्त मुनेर्मनोवृत्तिरिव स्विकायाम्' इति नैषधे । भीतेर्भयाजीवनाश नष्टां जीवं गृहीत्वा प्रपलाय्य गतां दिवसस्य वासरस्य लक्ष्मी श्रियं विज्ञाय ज्ञात्वा अवधार्य हसन्त्याः स्वोत्कर्षेण हास्यं सृजन्त्या वसत्या निशाया हसित स्मित हास्यमिव ।
કલોકાથ ચંદ્રની કંઈક ચંદ્રિકા પ્રગટ થઈ તે જાણે આ લેમાં રાત્રિના ભયથી જીવ લઈને ભાગી ગયેલી દિવસલમાને જાણીને, પિતાના ઉત્કર્ષથી હાસ્ય વેરતી એવી રાત્રિનું હાસ્ય ન હાય ! ૧૮૧ . अम्बरे विरुरुचे सुधारुचे-श्चन्द्रचन्चुरमरीचिसंचयः ।
दुग्धवारिनिधिरात्मज विधु, किं चिराय मिलितु समीयिवान् ॥८॥ ___ . अम्बरे आकाशमण्डले सुधारुचेरमृतकिरणस्य चन्द्रस्य चन्द्रवत्कर्पूर इव चञ्चुरो मनोक्षः। धवल इत्यर्थः । 'चन्द्रोऽम्बुकाम्ययोः । स्वर्णे सुधांशी कपूरे कम्पिल्ले मेचकेऽपि च ॥' इत्यनेकार्थः । मरीचीनां संचयो निकरो विरुरुचे विरोचते स्म शुशुमे । 'विरुरुचे ष्टितभूमिषु' इति रघुवंशे । उत्प्रेक्ष्यते-दुग्धवारिनिधिः क्षीरसमुद्रः आत्मज दुग्धाम्भोनिधावुत्पन्नत्वेन विधुं सुधादीधितिं चिराय बहोः कालात् । 'चिराय चिरराप्राय चिरस्य च चिराचिरम्' इति हैम्यामव्ययाधिकारे । मिलितुं पुत्रस्नेहेन मिलनार्थ समीयिवान्कि समागत इव ॥ गगने चन्द्रगोलिकाङ्गः ॥
શ્લોકાઈ અમૃતકિરણવાળા ચંદ્રની કપૂર જેવી મનહર અને ઉજજ્વલ કાંતિ ગગનમંડલમાં ફેલાણી. તે કાન્તિસમૂહરૂપ ક્ષીરસમુદ્ર, પોતાના પુત્ર ચંદ્રને પુત્રનેહથી ઘણા સમયે મલવા માટે જાણે આવ્યો ન હેય ! ૮૨ स्वर्ग गता ऋतुभुजां प्रभवामि तृप्त्यै, तद्वन्नृणामपि धरामधिगत्य नित्यम् । पीयूषसंततिरितीव विचिन्तयन्ती, ज्योत्स्नातनूरवततार तलेऽचलायाः ॥८॥