________________
मर्ग ७ श्लो० ९३-९५] हीरसौभाग्यम्
५०५ આકાશગંગાની અધિષ્ઠાયિકા દેવીઓ બની ગઈ ! તેમજ પૃથ્વી દેદીપ્યમાન કોડે સ્ફટિકરની બનાવેલી ન હોય તેવી બની ગઈ. ૯શા
विजयिन इव राज्ञः श्वेतभासो विभाव्या - भ्युदयमखिलकाष्ठामध्यराजत्करस्य । विहितसकलसंध्यावश्यको ध्यानलीला-कमलकलमरालः स स्म भूत्सरिराज्ञः ॥९४॥
स श्रीहरिविजयनामा सूरीणामाचार्याणां मध्ये दीप्यमानत्वात्प्रतापवत्त्वाद्वा राजा । अथवा राजा मुख्यः। स ध्यान सूरिमन्त्रजापरूपप्रणिधान तदेव लीलाकमल क्रीडाकरणोचितमरविन्दं तत्र कलमरालः कलहंसः। 'कलमरालविहंगमवाहना' इति वाग्देवतास्तोत्रे । प्रकृष्टो राजहंसो वा । स्म भूदजायत । 'स्मयोगेऽप्यटो लोपमिच्छन्ति । स्म भूत्' इति +सारस्वतव्याकरणे । स किंलक्षणः । विहित सकल समस्त संध्यायां दिनावसाने आवश्यक प्रतिक्रमणादिविधिर्येन । अथ वा निर्मितसंध्यासंबन्धिकमावश्यकमवश्य कर्तव्य येन । किं कृत्वा । श्वेतभासः सितकान्तेश्चन्द्रस्याभ्युदयं विभाव्य । 'पश्यति विभावयत्यपि विलोकते वीक्षते गवेषयति' इत्यादि क्रियाकलापे विलोकनार्थाः क्रियाः । कस्येव । विजयिनः सर्वत्राप्यप्रतिहतपराक्रमत्वेनानेकराजचक्रजयनशीलस्य राक्ष इव नृपस्य । किंभूतस्य चन्द्रस्य राज्ञश्च । अखिलानां समग्राणां काष्ठानां दिशां मध्ये राजन्तो दीप्यमानाः कराः किरणा राजदेयांशा यस्य ॥
પ્લેકાર્થ સંધ્યાકાલીન સર્વે આવશ્યક ક્રિયાઓ કરી લીધા પછી, ધ્યાનરૂપી કમલના કીડાવનમાં રાજહંસ સમાન આચાર્ય હીરવિજયસૂરિજીએ વિજયી રાજાની જેમ સમગ્ર દિશાઓની મધ્યમાં દેદય કાન કિરણવાળા ચંદ્રના ઉદયને જોયો. ૧૯૪ા
यं प्रास्त शिवाहसाधुमघवा सौभाग्यदेवी पुनः,
पुत्रं कोविदसिंहसीहविमलान्तेवासिनामग्रिमम् । तद्रालीक्रमसेविदेवविमलव्याणिते हीरयु
क्सौभाग्याभिधहीरसूरिचरिते सर्गोऽभवत्सप्तमः ॥१५॥ अत्र श्रीहीरसौभाग्यनाम्नि महाकाव्ये सप्तानां संख्यापूरणः सप्तमः सर्गः अकारनामविशेषोऽभवत्संजातः ॥
કર્થ વણિકલમાં ઇન્દ્રસમાન શિવ શ્રેષ્ઠી અને સૌભાગ્યદેવીના સુપુત્ર દેવવિમલગણી જેઓ
+ चिन्त्यमिदमिति प्रामाणिकाः ।