________________
४९६
हीरसौभाग्यम् [सर्ग श्लो० ७६-७८ प्रेम्णा याचनया वा। 'प्रणयः प्रेमयायाच्ायोः। विनम्मे प्रसरे चापि' इत्यनेकार्थः । स्वावसथं निजनिकेतन समीयुषि सम्यम्भोमाझ्गकलिते संप्राप्ते पत्यौ भर्तरि सुरेन्द्र निर्जरनायके सति । अथ वा शके स्नेहेन स्वगृहे समागते सति ॥ इति चन्द्रोदयः ॥
બ્લેકાર્થ પોતાના સ્વામી ઈન્દ્ર પિતાના મહેલમાં પ્રેમપૂર્વક આવેલા હેવાથી, અંધકારને દૂર કરવા માટે પૂર્વદિશારૂપી મૃગનયનાએ જાણે ચંદ્રરૂપી દેદીપ્યમાન એ પ્રદીપ પ્રગટાવ્યો ન હોય! હક
पूर्वाद्रिमौलेरथ मन्दमन्द, प्रचक्रमे गन्तुमचण्डरोचिः ।
निजोदयश्रीनवनृत्तसूत्र-धारापराद्रि मिलितु किमुत्कः ॥७॥ अथाभ्युदयानन्तर न विद्यन्ते चण्डानि तीक्ष्णानि रोचींषि यस्य सः अचण्डरोचिः शीतकान्तिश्चन्द्रः पूर्वाद्रिमौलेरुदयाचलचूलातः मन्दमन्द शनैः शनैः । 'गगनमवजगाहे मन्दमन्द मृगाङ्कः' इति चम्पूकथायाम् । तथा—'मन्द मन्द नुदति पवनश्चातकस्तोयगृधनुः' इति मेघदतेऽपि दृश्यते । गन्तु प्रचलित प्रचक्रमे प्रारब्धवान । 'प्रचक्रमे वक्तुमनुक्रमशा सविस्तर वाक्यमिदं सुनन्दा' इति रघुवंशे । उत्प्रेक्ष्यते-निजस्यात्मनः उदयश्रिया अभ्युद्गमनलक्ष्म्या नव नवीन यन्नृत्तं ताण्डव नाटक तत्र तस्य वा सूत्रधार नृत्यकलाचार्यम् । नाटकप्रारम्भकमित्यर्थः । तादृशमपरादि पश्चिमाचलम् । अस्ताद्रिमित्यर्थः । मिलितुमुत्कः किमु उत्कण्ठित इव । चन्द्रस्य हि प्रतिपद्वितीययोः पश्चिमाचला. देवाभ्युदयः तस्मादस्ताचलः । एव चन्द्रस्योदयाचलः । 'उदयगिरिकुरङ्गीशृङ्गकण्ड्यनेन स्वपिति सुखमिदानीमन्तरोदोःकुरझगः' । पुनः 'परिणतरविगर्मव्याकुला पौरुइती दिगणि घनकपोतीहुकृते क्रन्थतीव' इत्युदयनाचार्यकालिदासकवीन्द्रयोः प्रातर्वर्णने पृथक्पृथक पदद्वये ॥
બેકાર્થ શીતલ કાંતિવાળા ચન્દ્ર પૂર્વાચલથી ધીમે ધીમે ચાલવાને પ્રારંભ કર્યો. તે જાણે પોતાની ઉદયલક્ષ્મીના નવા નાટકને પ્રારંભ કરતા પશ્ચિમાચલ (અસ્તાચલ) રૂપી સુત્રધારને મલવા માટે ઉસુક બન્યો ન હોય ! કળા
स्वर्भाणुभीतेः शरणीकृतेन, प्राचीधवेनायमुपेक्षितः सन् ।
त्रस्यञ्छशाङ्कः किमु पश्चिमाशा-पतेः शरण्यस्य समेत्युपान्ते ॥७८॥ अस्यन् रिपोः सकाशात्त्रासमाकस्मिक भय संप्राप्नुवन् अयं गगनावगाही शशाङ्क: श्चन्द्रः उत्प्रेक्ष्यते--शरण्यस्य शरणागतवत्सलस्य पश्चिमाशापतेः पश्चिमदिक्पालकस्य वरुणस्योपान्ते समीपे किमु समेति समागच्छतीव । किंभूतः सन् । स्वर्भाणुभीतेः निज