________________
मर्ग ७ श्लो०७४-७६] हीरसौभाग्यम्
४९५ पीयूषपूर्णः कलधौतक्लुप्तोऽ-भिषेककुम्भः किमु कौमुदीशः ।
शृङ्गारयोनि जगदाधिपत्येऽ-भिषिञ्चता विश्वकृता व्यधायि ॥७४॥ शृङ्गारयोनि श्रीनन्दनम् । 'मनःशृङ्गारसंकल्पात्मनो योनिः' इति हैम्यां स्मरनामसु । जगदाधिपत्ये सर्वेषां भुवनानां राज्ये नक्त स्मरस्यैश्वर्यादभिषिञ्चता अभिषेक कुर्वाणेन विश्वकृता जगत्सृष्टिकारकेण विधिना । उत्प्रेक्ष्यते-कौमुदीशः चन्द्रिकापतिः शीतकान्तिरूपः पीयूषणामृतरसेन पूर्णो भरितः । तथा कलधौतै रजतैः क्लुप्तो विनिमितो घटितः अभिषेककुम्भः अभिषेककरणकृते कलशः किमु व्यधायि विनिर्मित इव ॥
પ્લેકાર્થ સંપૂર્ણ ચંદ્રમંડલ શોભે છે તે જાણે કામદેવને જગતના રાજસિંહાસન પર અભિષેક કરવા માટે, બ્રહ્માએ બનાવેલ અમૃતરસથી ભરપૂર એ ચાંદીનો અભિષેકકુંભ (મંગલકલશ) ન હોય ! ૭૪
श्रयात्मुधायाश्चिरकालपाना-त्तां याचमानाननुगृह्य देवान् । मुधारुचिर्विश्वसजा सुधाया, अक्षीणकुम्भः किमु कल्प्यते स्म ॥७५।।
विश्वसृजा त्रिभुवनसर्वसृष्टिविधायिना वेधसा सुधारुचिश्चन्द्रः । उत्प्रेक्ष्यतेसुधाया अमृतरसस्य न कदाचिदपि क्षीयत इत्यक्षीणः अक्षयकुम्भश्चन्द्रकान्तमणिमयः कलशः किमु कल्प्यते स्म विनिर्मितो घटित इव । किं कृत्वा । चिरकाल' बहुसमय यावत्पानादी[त्पी]तेः सुधायाः पूर्वपीयूषस्य क्षयान्नाशात् तां पुनः सुधां याचमानानभ्यर्थयमानान्मार्गयतो देवाननुगृह्य सर्वेषां सुराणामुपरि पीयूषपायित्वेन अनुग्रह कृत्वा ॥
પ્લેકાર્થ ઘણા કાળ પર્યત અમૃતરસનું પાન કરવાથી અમૃત ખલાસ થઈ જવાથી યાચના કરતા દે ઉપર અનુગ્રહ કરીને, જગતકર્તા બ્રહ્માએ ક્યારે-પણ ક્ષય ન પામે તે આ ચંદ્રરૂપ અમૃતને અક્ષયકુંભ બનાવી આપો ન હોય ! પાપા
प्राग्दिछमृगाक्ष्या प्रणयेन पत्यौ, समीयुषि स्वावसथं सुरेन्द्रे । उद्बोधितो भेत्तमिवान्धकार, निशीथिनीनायकदीप्रदीपः ॥७६।।
प्राग्दिझ्मृगाक्ष्या पूर्वहरिन्नामहरिणनयनया रात्रित्वादन्धकार मेत्तुं निराकर्तुम् । उत्प्रेक्ष्यते-निशीथिनीनायकः शर्वरोवरयिता चन्द्र एव दीप्रो दीपनशीलः प्रसरज्ज्यो. तिर्जालजटिलो दीपो मन्दिरमणिरुद्बोधितः प्रकटीकृत इव । कस्मिन्सति । प्रणयेन